________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मित्यनेन प्रशारं प्रहस्तं पृष्ठतः कृतवानिति गम्यते ॥१२॥१३॥ एषा वानरता । राक्षसेन्द्रस्य, तवेति शेषः ॥१४॥१५॥प्रतियुद्धाः प्रतिप्रहृताः॥१६ ममापीति तवेवेत्यर्थः । तर्हि कथं बद्धोऽसीत्याशङ्कयाह राजानमिति ॥ १७॥ पीडितः बद्धस्सन् । अस्त्रेण विमुक्तः । हिशब्दोऽवधारणे । ब्रह्मास्त्रस्य
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा । धनदेन न मे सख्यं विष्णुना नास्मि चोदितः॥१३॥ जातिरेव मम त्वेषावानरोऽहमिहागतः।दर्शने राक्षसेन्द्रस्य दुर्लभ तदिदं मया ॥१४॥ वनं राक्षसराजस्य दर्शनार्थे विनाशितम् । ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकांक्षिणः ॥ १५ ॥ रक्षणार्थ तु देहस्य प्रतियुद्धा मया रणे । अस्त्रपाशैर्न शक्योऽहं बद्धं देवासुरैरपि ॥ १६॥ पितामहादेव वरो ममाप्येषोऽभ्युपागतः। राजानं द्रष्टुकामेन मयास्त्रमनुवर्ति तम् ॥ १७ ॥ विमुक्तो ह्यहमत्रेण राक्षसैस्त्वभिपीडितः । केनचिद्राजकार्येण संप्राप्तोऽस्मि तवान्तिकम् ॥१८॥ दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः। श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ १९॥ इत्यार्षे श्रीरामा
यणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः ॥५०॥ साधनान्तरासहत्वादिति भावः । अस्तु सर्वमेतन्मदर्शनार्थम्, मद्दर्शनं वा किमर्थम् ? तबाह-केनचिदिति ॥ १८॥ १९॥ इति श्रीगोविन्दराजविरचिते । श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चाशः सर्गः ॥५०॥ यनिमित्तस्ते इति पाठे बहुव्रीहिः ॥ ११-१३ ॥ दर्शन इति । राक्षसेन्द्रस्य, तवेति शेषः । दर्शने दुर्लभे सति । राक्षसेन्द्रस्य तव दर्शनार्थ तदिदं वनं नाशित मिति सम्बन्धः ॥ १४ ॥ १५ ॥ रक्षणार्थमिति । प्रतियुद्धाः प्रहताः ॥ १६॥ ननु तवास्त्रबन्धाभावे किमिति ब्रह्मास्त्रेण बद्धो राक्षसैः पीडयस इत्यत आहराजानमिति । अस्त्रविमुक्तोऽपि कार्यवशाद् बुद्धिपूर्वकमेवाहमेभिः पीढचे एतन्ममाकिवित्करमिति भावः ॥ १७-१९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायो पचाशः सर्गः॥ ५० ॥
८.४१
For Private And Personal