________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kalashsagarsun Gyarmandir
वा.रा.भू. ॥१३६॥
तमुद्रीक्ष्येत्यादि ॥ १ ॥२॥ बाणः महाबलिसुतः । अनेन तेनापि किञ्चित् शप्तमिति गम्यते । अत्रेतिकरणं द्रष्टव्यम् ॥ ३ ॥४॥ दुरात्मा पृच्छयता टी.नु.का. मिति । अस्य विवरणम् कुत इत्यादि । कुतः कस्मादेशादागतः । किं वाऽस्य कारणम् अस्य कः प्रेरकः । मत्पुरीम्, प्रतीति शेषः। आयोधने युद्धे। स. ५०
तमुद्रीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । कोपेन महताऽऽविष्टोरावणो लोकरावणः॥१॥शङ्काहतात्मा दध्यौस कपीन्द्रं तेजसावृतम् । किमेष भगवान्नन्दी भवेत् साक्षादिहागतः॥२॥ येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा। सोऽयं वानरमूर्तिः स्यात् किंस्विद्वाणोपि वाऽसुरः॥३॥ स राजा रोषताम्राक्षः प्रहस्तंमन्त्रिसत्तमम् ।कालयुक्तमुवा चेदं वचो विपुलमर्थवत् ॥४॥ दुरात्मा पृच्छयतामेष कुतः किं वाऽस्य कारणम् । वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ॥५॥ मत्पुरीमप्रधृष्यां वाऽऽगमने किं प्रयोजनम् । आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः ॥६॥ रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् । समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥७॥ यदि तावत्त्व मिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे॥८॥ यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च । चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् । विष्णुना प्रेषितो वापि दूतो विजयकांक्षिणा ॥९॥ न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥१०॥ तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे । अनृतं वदतश्चापि दुर्लभं तव जीवि
तम् । अथवा यनिमित्तं ते प्रवेशो रावणालये ॥ ११॥ एवमुक्तो हरि श्रेष्ठस्तदा रक्षोगणेश्वरम् ॥ १२॥ कि कार्य किं प्रयोजनम् ॥५-७॥ यदि तावत्त्वमिन्द्रेणेत्यादि । यदि वैश्रवणस्येत्यादेः दूतो विजयकाशिणेत्यन्तस्य तत्त्वमाख्याहीति पूर्वेका संबन्धः। ॥८॥९॥ न हीत्यादि । अथवेति । यन्निमित्तं कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वोते पूर्वेण संबन्धः ॥१०॥११॥ एवमुक्त इत्यादि । रक्षोगणेश्वर
IN॥१३॥ आविष्टः, आसीदिति शेषः ॥१॥ तेजसावृतं, दृष्ट्रेति शेषः । शङ्काहतात्मेत्युक्तो शङ्कामेवाह-नन्दी वानरमुख्य एषः प्रमथगणाधिपः॥२॥ शप्तः मन्मुखसहशमुखैस्तव 7 नाशो भविष्यतीति शप्तः । सोऽयमिति । वाणो बलिसुतः महासुरः। इति दध्याविति पूर्वेण सम्बन्धः ॥ ३ ॥ कालयुक्त कालोचितम् ॥४॥ कुतः कस्मादेशादागतः । किंवाऽस्य कारणम् अस्य को वा प्रेषकः ॥५॥ मत्पुरीमिति, उदिइयेति शेषः॥६-१०॥ यन्निमित्तं कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वेति पूर्वेण सम्बन्धः। अबवाश
For Private And Personal