SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir अतीत्येति । परिचारवृद्धान् अमात्यवृद्धान् ॥ ५८-६१ ॥ कार्यार्थ कर्तव्यार्थम् । अर्थस्य कर्तव्यार्थस्य । मूलं निमित्तम्, प्रेषयितारमित्यर्थः। अनयोः हन्यमानस्ततःक्रूरै राक्षसैः काष्ठमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः॥५३॥ अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः। व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ ५४॥ तं मत्तमिव मातङ्ग बद्धं कपिवरोत्तमम् । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ५५॥ कोऽयं कस्य कुतो वाऽत्र किं कार्य को व्यपाश्रयः । इति राक्षसवीराणां तत्र संजज्ञिरे कथाः॥५६॥ हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे।राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥ ५७॥ अतीत्य मार्ग सहसा महात्मा स तत्र रक्षोधिपपादमूले। ददर्श राज्ञः परिचार वृद्धान् गृहं महारत्नविभूषितं च ॥५८॥ स ददर्श महातेजा रावणः कपिसत्तमम् । रक्षोभिर्विकृताकारैः कृष्य माणमितस्ततः ॥ ५९॥राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥६॥ स रोषसंवर्तितताम्रदृष्टिदशाननस्तं कपिमन्ववेक्ष्य। अथोपविष्टान् कुलशीलवृद्धान समादिशतं प्रति मन्त्रिमुख्यान ॥६॥ यथाक्रमं तैः स कपिर्विष्टष्टः कार्यार्थमर्थस्य च मूलमादौ । निवेदयामास हरीश्वरस्य दूतः सकाशादह मागतोऽस्मि ॥६२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ विपृष्ट इत्यनेन संबन्धः । श्लोकान्त इतिकरणं बोध्यम् । वक्ष्यमाणसङ्ग्रहोऽयम् ॥ ६२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गार तिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥४८॥ ब्रह्मास्त्रमन्त्रधारणमशक्यमित्यर्थः । नच पुनः करणं शक्यमित्याह पुनश्चेति । न प्रवर्तते प्रयुक्तं ब्रह्मास्त्रं पुनर्न प्रभवतीत्यर्थः । अतः संशयिताः स्म सर्व इति चिन्ता जगामेति पूर्वेण सम्बन्धः ॥५१-५५ ॥ कोऽयमिति। अत्र रावणपुरे । को व्यपाश्रयः को वा आश्रयः ॥५६॥ ५७ ॥ अतीत्येति । परिचारवृद्धान् अमात्य वृद्धान् ॥५८-६१ ॥ कार्यार्थ कर्तव्यार्थम् । अर्थस्य च मूलम् अर्थकारणम् । कार्य प्रति प्रेषयितारमिति यावत् । पृष्टस्सन दूतस्सन अहमागतोस्भीति निवेदया मासेति सम्बन्धः ॥५२॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy