SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. संवादः ॥४५॥४६॥ ततस्तमिति । शणवल्कैः झणत्वग्भिः। संहतैः सजीकृतः। दुमचीरैः वल्कलैः ॥१७॥स इति । राक्षसेन्द्रः कौतूहलाती टी.सु.क ॥१३॥ मां द्रष्टुं व्यवस्येदिति निश्चितार्थस्सन बन्धनादिकं रोचयामासेति सम्बन्धः ॥ ८॥१९॥ अन्येन शणवल्कलादिना । बद्धः अस्त्रं नानुवर्तते. स०४८ स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः । परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभय॑मानः ॥४६॥ ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् । बबन्धुःशणवल्कैश्च दुमचीरैश्च संहतैः॥४७॥ स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च । कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥४८॥ स बद्धस्तेन वल्केन विमुक्तोऽस्रेण वीर्यवान् । अस्त्रबन्धःस चान्यं हि न बन्धमनुवर्तते ॥४९॥ अथेन्द्रजितु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् । विमुक्तमत्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥५०॥ अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताःस्मसर्वे॥५॥ अस्त्रेण हनुमान मुक्तो नात्मानमवबुध्यत । कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः॥५२॥ नास्त्रेण बद्ध इव वर्तत इत्यर्थः॥५०॥ अहो इति । मन्त्रगतिः ब्रह्मास्त्रमन्त्रपद्धतिः। न विमृष्टा न पर्यालोचितेत्यर्थः । बन्धान्तरेण सहानवस्थानरूपं ब्रह्मास्त्रस्वभावमनालोच्य शणबन्धादिकं राक्षसैः कृतमिति भावः । अस्त्रे विहते ब्रह्मास्ने प्रतिहते । अन्यदत्रं न प्रवर्तते, न प्रभवतीत्यर्थः ।। तदेव ब्रह्मास्त्रं प्रयुज्यतामित्याशङ्कयाह-पुनश्चेति । पुनर्न प्रवर्तते, प्रयुक्तं ब्रह्मास्त्रं पुनर्न प्रभवतीत्यर्थः । सर्व इत्यनन्तरमितिकरणं बोध्यम् । इति । चिन्तां जगामेति पूर्वेण सम्बन्धः॥५१॥ अनेणेति । नावबुद्धयत नावधृतवान् ॥५२-५७ ॥ स इति । समीक्ष्य विचार्य करोतीति समीक्ष्यकारी ॥४६॥ शणवल्कः शणत्वग्भिः। संहतः त्रिगुणितेः॥४७॥ सा हनुमान राक्षसंन्द्रः कौतूहलान्मा द्रष्टुं व्यवस्थे । दिति निश्चितार्थस्सन् बन्धनादिकं रोचयामासेति सम्बन्धः ॥ ४८ ॥ अस्त्रवन्धमोक्षोऽपि तथैवाजायतेत्याह-स इति । वल्केन तजन्यरज्ज्वैव बद्धः अत्रेण १३ तु विमुक्तः । कुतस्तत्राह अखबन्धो मन्त्रबन्धोऽन्य बन्धं नानुवर्तते इतरबन्धेन सह न तिष्ठति, तस्मिन सति मन्त्रबन्धो नइयतीत्यर्थः ॥ ४९ ॥ दुमचीर बद्धम्। अत एव अत्रेण विमुक्तं विचार्य अन्येन शणवल्कलादिना बद्धो हनुमान् अस्त्रमनुवर्तते अस्त्रेण बद्ध इव वर्तते इत्यपि विचार्य चिन्ता जगामेनि पसम्बन्धः ॥ ५० ॥ अथात्मानमुपालभते-अहो इति । महत्कर्म ब्रह्मास्त्रेण हनुमद्वन्धनकर्म राक्षसैः निरर्थकं कृतम् । कुतः मन्त्रभृतिः न शक्या, For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy