________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एवमिति । नातिवर्तेन्मां ममाननमप्रविश्य न गच्छेत् । अतिवर्तेदित्यत्र परस्मैपदमार्षम् । अत्र इतिकरणं द्रष्टव्यम् । अत्रवीन्नातिवर्तन्मां कश्विदेष वरो ममेत्यस्यानन्तरं तदृष्ट्वा व्यादितं वक्रं वायुपुत्रः सुबुद्धिमानित्यादिश्लोका द्रष्टव्याः । मध्ये तं प्रयान्तमित्यादयः केचन श्लोकाः प्रक्षिप्ताः असङ्ग ताश्व, शतयोजनायतत्वे वानरैर्लङ्कावासिभिश्व ज्ञातः स्यादिति विरोधात् । त इमे प्रक्षिप्तश्लोका:-" तं प्रयान्तं समुदीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनुमतः । प्रविश्य वदनं मेऽद्यं गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा । व्यादाय विपुलं वक्रं स्थिता
एवमुक्ता हनुमता सुरसा कामरूपिणी । अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ १५७ ॥ [ तं प्रयान्तं समु द्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः ॥ १ ॥ प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ २ ॥ व्यादाय वक्रं विपुलं स्थिता सा मारुतेः पुरः । एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ ३ ॥ अब्रवीत् कुरु वै वक्रं येन मां विषहिष्यसे । इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ॥ ४ ॥ दशयोजनविस्तारो बभूव हनुमांस्तदा । तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् ॥ ५ ॥
सा मारुतेः पुरः । एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः । अब्रवीत्कुरु वै वक्रं येन मां विषहिष्यसे । इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः । दश योजनविस्तारो बभूव हनुमस्तिदा । तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् । चकार सुरसा चास्यं विंशद्योजनमायतम् । हनूमांस्तु ततः क्रुद्ध स्त्रिंशद्योजनमायतः । चकार सुरसा वक्रं चत्वारिंशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरस्सप्ततीयोजनोच्छ्रितः । चकार सुरसा वक्रमशीतीयोजनोच्छ्रितम् । हनुमानचलप्ररूयो नवतीयोजनोच्छ्रितः । चकार सुरसा व शतयोजनमायतम् " इति ॥ १५७ ॥ रामान् ० - नाग (देव) माता इन्द्रमत इत्यतः परं प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सस्वरेति पाठः । एव मिति । विषहिष्यसे अभिभविष्यसि प्रतिष्यसीत्यर्थः । इत्युक्त्वति । दशयोजनमायतः दशयोजनविस्तारो बभूव हनुमानित्यनेन " दशयोजनविस्तीर्णा त्रिंशद्योजनमायता । छाया भावः ॥ ५५ ॥ ५६ ॥ एवमिति । कश्चिदपि जनः नातिवर्तेत, मामिति शेषः । नातिवर्तेन्माम् इत्यपि पाठः ॥१५७॥ [ अथ वरदानं श्रुत्वापि जिगमिषन्तं प्रत्याह
For Private And Personal