________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
विवेकपूर्वविचारे। अकार्यम् अज्ञातकार्यम्, ज्ञातुमशक्य कार्य नास्तीत्यर्थः । संग्रहेषु संगृह्यन्ते भोग्यतया स्वीक्रियन्ते भोभिरिति संग्रहाः लोकाः तेषु विष्वपि यस्तवात्रबलं शारीरं बलं च न वेद स नास्ति, सर्वलोकप्रख्यातशस्त्रास्त्रबलप्तम्पन्नस्त्वमित्यर्थः॥५॥ रणावम रणसङ्कटे । निश्चितार्थ ।
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगेन त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥६॥ निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः । अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥७॥ बलानि सुसमृद्धानि साश्वनागरथानि च । सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ॥८॥ न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ९॥ इदं हि दृष्ट्वा मतिमन्महद्वलं कपेः प्रभावं च पराक्रमं च । त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ १०॥ बलावमर्दस्त्वयि सन्निकृष्ट यथा गते शाम्यति शान्तशत्रौ ।
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदा वरिष्ठ ॥११॥ निश्चितजयरूपार्थम् । त्वाम् आसाद्य विचिन्त्य मे मनः श्रमं न गच्छति विषादं न गच्छतीत्यर्थः ॥६-८॥ त्वयि मे यस्तारः उत्कर्षप्रत्ययः सः तेषु । नास्त्येव हीति योजना ॥९॥ इदं किङ्करायक्षकुमारान्तमारकम् । मतिमत् प्रशस्तमतियुक्तम् । बलं शारीरम् । प्रभावम् अन्तःशक्तिम् । पराक्रम पौरुषम् ॥१०॥बलेति । शान्तशत्रौ शमितशत्रौ शत्रुशमनस्वभावे इति यावत्।"वादान्तशान्त०-" इत्यादिना निपातनाणिलोप इडभावश्चात्वयि सनिकृष्टे कपेरासन्ने सति । यथा बलावमर्दः सेनाक्षयः शाम्यति तथा आत्मबलं परं परबलं च समीक्ष्य समारभस्व । बलनाशात्पूर्वमेव शवशान्ति अशक्यं नास्ति । मतिपूर्वमन्त्रणे बुद्धिपूर्वक विचारिते । अकार्यम् अकार्यविषयज्ञानं नास्ति । भोकृभिः कर्मणा संगृह्यन्त इति साहा लोकाः तेषु त्रिषु । ते अत्रबलं स्वाभाविकं बलं च यो न वेद स कश्चिन्नास्ति, सर्वे जानन्तीत्यर्थः ॥५॥ रणावमदें रणसटविषये मनश्च त्वां समासाद्य चिन्तयित्वा निश्चिताथै, निश्चितविजयरूपप्रयोजनं सत् श्रमं विषादं न गच्छतीत्यर्थः ॥६॥ प्रकृतमाह-निहता इति ॥७॥८॥ अरिनिषूदन ! त्वयि मे या सारः उत्कर्षप्रत्ययः स तेषु नास्त्येव हीति योजना ॥ ९॥ इदं किराद्यक्षकुमारान्तमारकम् । मतिमत् प्रशतमतियुक्तम् । बलं शारीरम् । प्रभाव माहात्म्पम् । पराक्रम पौरुषम् ॥१०॥ अनविदा वरिष्ठ ! शान्तशत्रौ त्वयि गते इतो निर्गते, सन्निकृष्टे हनुमत्समीपं प्राप्ते सति बलावमर्द सेनानाशः यथा शाम्पति सेनाक्षयो यथा न स्यात् तथा आत्मवलं परं च समीक्ष्य समारभस्व, स्वसेनानाशात्पूर्वमेव शत्रुसंहारं कुर्वित्यर्थः ॥ ११ ॥
For Private And Personal