SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir परस्य शत्रोः । प्रवेगम् तर्कयन् आलोचयन् । स्वकर्मयोग विधाय युद्धक्रमं च सङ्कल्प्य । पूर्वमश्वान् हत्वा ततो रथं भङ्ख्यामीति निश्चित्येत्यर्थः॥३०॥ राभानु-स्वकर्मयोग विधाय स्वकर्तव्यचिन्तां कृत्वा । मतिं च चक्रेऽस्य वधे महाकपिरिति पाठः ॥ ३०॥ विवर्तने सव्यापसव्यभ्रमणेऽपि । भारसहान रथभारसहान् ॥३१॥ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते । प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽनिरुपेक्षित क्षमः ॥२९॥ इति प्रवेगं तु परस्यतर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् । चकार वेगं तु महाबलस्तदा मतिं च । चक्रेस्य वधे महाकपिः॥३०॥स तस्य तानष्ट हयान् महाजवान समाहितान् भारसहान् विवर्तने । जघान वीरः । पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः॥३१॥ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। प्रभननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्॥३२॥ स तं परित्यज्य महारथो रथं सकार्मुकःखगधरः खमुत्पतन् । तपोभियोगाषिरुग्रवीर्यवान विहाय देहं मरुतामिवालयम् ॥३३॥ ततःकपिस्तं विचरन्तमम्बरे पतन्त्रि राजानिलसिद्धसेविते । समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोईढम् ॥ ३४ ॥ स तं समाविष्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः । मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ ३५॥ सभग्नवाहरुकटीशिरोधरः क्षरन्नमृनिर्मथितास्थिलोचनः । समग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः। महाकपिभूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ॥ ३६॥ तनाभिहतः अत एव पिङ्गाधिपमन्त्रिनिर्जितः, हनुमता निर्जित इत्यर्थः। प्रभग्ननीडः प्रभग्नरथाङ्गः । कूवरः युगन्धरः। वाजिरिति इकारान्तत्व मार्ग ॥ ३२ . मस्तामात्यमुत्पतन् ऋगिरिव, अभवदिति शेषः ॥३३ ॥३४॥ गृह्य इवेत्यत्र गुणाभाव आर्षः ॥३५॥ प्रविकीर्णबन्धनः अवहितः। अलिरादः अतिसहिष्णुः॥२७-२९. ॥ इतीति । स्त्रकर्मयोग विधाय स्वकर्तव्यचिन्तां कृत्वा पूर्वमश्वान् हत्या पश्चाद्रथं भङ्गयामीति निश्चित्येत्यर्थः वि०॥ विवर्तने रथगतिषु सहरणसमये हयान् जघान ॥ ३१॥ प्रभमनीडः प्रभग्नरथगतः। कूबरः युगन्धरः ॥ ३२ ॥ मरुतामालयमुत्पतन् ऋपिरिव, वभूषेति । शेषः ॥ ३३ ॥ ३४॥ समाविध्य भ्रामयित्वा गृह्य इव । असन्धिल्यवावाषौं । गृहीत्ववेत्यर्थः ॥ ३५ ॥ ३६॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy