________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. १२७॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वेगं निहत्य परिहृत्य ।। २९-३८ ।। ध्वजिनीपतीन् सेनापतीन् । कृतक्षणः दत्तावसरः, अभूदिति शेषः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे । मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ २८ ॥ तयोर्वगवतोर्वेगं विनिहत्य महाबलः । निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥ २९ ॥ स सालवृक्षमासाद्य तमुत्पाट्य च वानरः । agat राक्षस वीरौ जघान पवनात्मजः ॥ ३० ॥ ततस्तांस्त्रीन हतान् ज्ञात्वा वानरेण तरस्विना । अभिपेदे महावेगः प्रसा प्रसो हरिम् ॥ ३१ ॥ भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् । एकतः कपिशार्दूलं यशस्विनमवस्थितम् ॥ ३२ ॥ पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् । भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ ३३ ॥ स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः । अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ ३४ ॥ समुत्पाट्य गिरेः शृङ्गं समृगव्याल पापम् । जघान हनुमान वीरो राक्षसौ कपिकुञ्जरः ॥ ३५ ॥ ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु । बलं तदवशेषं च नाशयामास वानरः ॥ ३६ ॥ अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् । स कपिर्नाशयामास सहस्राक्ष वासुरान ॥ ३७ ॥ हतैर्नागैश्च तुरगैर्भग्राक्षैश्च महारथैः । हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ३८ ॥ ततः पिस्तान ध्वजिनीपतीन रणे निहत्य वीरान् सबलान् सवाहनान् । समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥ श्रीर: मायगभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥
अशांनेाः ॥ २५-२७ ॥ ताभ्यां कर्तृभ्याम्, मुद्गराभ्यां करणाभ्यामभिहतः ॥ २८-३१ ॥ एकतः अवस्थितावित्यन्वयः । एकत्र स्थितावित्यर्थः ॥ ३२-३८ ॥ ध्वजिनांपतीन सेनापतीन परिगृह्य आश्रित्य स्थित इति शेषः । कृतक्षणः लब्धावसरः ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां | सुन्दरकाण्डाख्यायां षट्चत्वारिंशः सर्गः ॥ ४६ ॥
For Private And Personal
टी. सुं.कां.
स० [४६
॥ १२७॥