________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सेनापतीनित्यादि । समीक्ष्य विज्ञाय ॥१॥ रामानु०-सेनापतीनिति । समीक्ष्य विज्ञाय । प्रसमैक्षताग्रत इति पाठः ॥१॥ द्विजातिमुख्यैः हविषा उदीरितः अभि वर्धितः पावक इवेत्यन्वयः ॥ २॥३॥ ततो महदित्यनेनोक्तं विस्तरेणाह-ततस्तपस्संग्रहेत्यादिना। तपस्साहसञ्चयार्जितं तपोनुष्ठानसमूहसम्पा दितम् ॥ ४॥ समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धुरम् अष्टासिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् । “बन्धुरं सुन्दरे नने" इति विश्वः।
सेनापतीन् पञ्च स तु प्रमापितान हनूमता सानुचरान सवाहनान । समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः॥ १॥ स तस्य दृष्टयर्पणसंप्रचोदितःप्रतापवान् काञ्चनचित्रकार्मुकः । समुत्पपाताथ सदस्युदी रितो द्विजातिमुख्यैहविषेव पावकः ॥२॥ ततो महद्वालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् । रथं समा स्थाय ययौ स वीर्यवान महाहार तं प्रति नैर्ऋतर्षभः ॥३॥ ततस्तपःसंग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजाल शोभितम् । पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४॥ सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् । सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥५॥ विराजमानं प्रतिपूर्ण
वस्तुना सहेमदाना शशिसूर्यवर्चसा। दिवाकराभं रथमास्थितस्ततः स निजंगामामरतुल्यविक्रमः॥६॥ यदा अष्टातिभिर्निबद्धं बन्धुरं यस्य स तथा । बन्धुरं फलकासङ्घाट इत्याहुः । अन्ये घण्टा इत्यप्याहुः। तदानीम् अष्टासिश्चासौ निबद्धबन्धुरश्चेति समासः। यथाक्रमावेशितशक्तितोमरं पङ्कितया स्थापितशक्तितोमरम् ॥५॥ प्रतिपूर्णवस्तुना समग्रोपकरणेन । शरधनुःकवचादीन्युपकरणानि । प्रमापितान मारितान् । सभरोद्धतोन्मुखं समरोद्धतश्चासौ समरायोन्मुखश्च तम् । आक्षं समक्षमवस्थितम् अक्षाख्यं कुमारम् । निशम्य दृष्ट्वा प्रसमैक्षत युद्धार्थ माज्ञापयामासेत्यर्थः ॥ १॥ द्विजातिमुख्यर्हविषा उदीरितः पावक इति सम्बन्धः ॥२॥ जाम्बूनदजालेन तत्समूहेन सन्ततं व्याप्तम् ॥ ३॥ ततो महदित्यादि श्लोकोक्तमेवार्य प्रपञ्चयति-ततस्तप इत्यादिश्लोकत्रयेण । तपस्साहसञ्चयार्जितं तपोनुष्ठानसमूहसम्पादितम् ॥४॥ समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धु रम् अष्टाभिरसिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् ॥ ५॥ परिपूर्णवस्तुना समग्रसमरोपकरणेन । सः अक्षः शशिसूर्यवर्चसा हेमदाम्ना विराजमानं रथमास्थितो| स-समरोद्धतोन्मुख समरोद्धता: वैरिणः तदुन्मुखः तदभिमुखः तम् । आक्षम् अक्षाणां नेत्राणामिन्द्रियाणामयं विषयः आक्षः तम् । नेत्रविषयमिति यावत् । प्रसपेक्षताक्षम् इति पाठः ॥१॥
9
१६९
For Private And Personal