SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir मा.रा.भू. टी..का. इन्द्रेण वा, अन्यैवेति शेषः । वाशब्दस्य विकल्पार्थस्य प्रयोगात् ॥६॥७॥ व्यलीकम् आप्रयम् ॥ ८॥ नावमान्य इति । अत्र त्रयोदशसहस्रश्लोकाः सनागयक्षगन्धर्वा देवासुरमहर्षयः। युष्माभिः सहितैः सर्वेर्मया सह विनिर्जिताः ॥७॥ तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः । तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ॥८॥नावमान्यो भवद्भिश्च हरिीरपराक्रमः। दृष्टा हि हरयः पूर्व मया विपुलविक्रमाः॥९॥ वाली च सहसुग्रीवो जाम्बवांश्च महाबलः । नीलः सेनापतिश्चैव ये चान्ये दिविदादयः ॥१०॥ नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः।न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ॥११॥ महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् । प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ॥ १२॥ कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः । भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ १३॥ तथापि तु नयज्ञेन जयमाकांक्षता रणे आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ १४ ॥ ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः । समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ १५ ॥ स्थैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः। शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वेश्वोपचिता बलैः ॥ १६॥ ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् । रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ १७ ॥ गताः । अयं चतुर्दशसहस्रस्यादिः। धीति गायत्र्याश्चतुर्दशाक्षरम् ॥९॥१०॥ गतिः वेगः । रूपपरिकल्पनं यथेष्टरूपग्रहणम् ॥ ११ ॥ महदिति ।। इत्यं महत्सत्त्वं किमपि कपिरूपं सत् व्यवस्थितमिति शेयमित्यर्थः ॥ १२-१६॥ स्वतेजोरश्मिमालिनं स्वतेजसा सूर्यम् ।रश्मिमन्तमिवेत्यत्र उपमा, अस्मनिग्रहार्थम् ॥६॥ अत्र हेतु:-सनागेत्यादिश्लोकद्वयमेकं वाक्यम् । परिगृह्यताम्, कपिरिति शेषः ॥७॥८॥नावमान्य इत्यस्य श्लोकस्य एकादशाक्षरेण धी इति गायत्र्याश्चतुर्दशाक्षरं सहाति ॥ ९ ॥ १० ॥ नैव सेवामित्यादौ सर्वत्र ईक्छब्दोऽध्याहर्तव्यः । तथा चेत्थं योजना । तेषां वाल्यादीना| हनुमतो भीमा गतिः तेजआदिकं च यथा तथा ईहकू नास्तीति सम्बन्धः । रूपपरिकल्पनं ययेप्सितरूपपरिग्रहणम् ॥ ११ ॥ प्रयत्नमित्यार्ष कीवत्वम् ॥ १२॥ कामं यद्यपीत्यर्थः ॥ १३ ॥ नयज्ञेन नीतिज्ञेन । आत्मा स्वदेहः । युद्धसिद्धिः युद्धे जयः॥१४-१७ ॥ ॥२५॥ MP For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy