________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ग्रहणात् ।। १२-१४॥नीडं ध्वजावयवाविशेषः ॥ १५॥ सवन्त्यः नद्यः । विकृतं यथा तथा ननाद प्रतिध्यानवती बभूव ॥१६॥ १७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥१५॥ विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः । भननीडध्वजच्छत्रैर्भूश्च कीर्णाऽभवद्रथैः ॥ १५॥ स्रवता रुधिरेणाथ स्त्रयन्त्यो दर्शिताः पथि । विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ॥ १६ ॥ स तान प्रवृद्धान विनिहत्य राक्षसानु महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरोऽभिजगाम तोरणम् ॥ १७॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पश्चचत्वारिंशः सर्गः॥४५॥ हतान् मन्त्रिसुतान बुध्वा वानरेण महात्मना। रावणःसंवृताकारश्चकार मतिमुत्तमाम् ॥ १॥ स विरूपाक्षयूपाक्षी दुर्घरं नैव राक्षसम्। प्रघसं भासकर्ण च पञ्च सेनाग्रनायकान् ॥२॥ सन्दिदेश दशग्रीवो वीरानयविशारदान । हनुमदग्रहणव्यग्रान् वायुवेगसमान युधि ॥३॥ यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः । सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ४॥ यत्तैश्च खलु भाव्यं स्यात्तमासाधु वनालयम् । कर्म चापि समाधेयं देशकाल विरोधिनम् ॥५॥ न ह्यहं तं कपि मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तन्महद्भूतं महाबलपरिग्रहम् । भवेदिन्द्रेग
वा सृष्टमस्मदर्थ तपोबलात् ॥६॥ लहतानित्यादि । संवृताकारः अन्तर्मनाः । मति चिन्ताम् ॥१॥स इति ॥ २॥३॥ इति वक्ष्यमाणप्रकारेण ॥ ४॥ तमेवाह-यत्तरित्यादिना । यत्तेः यत चामानैः । अप्रमत्तरिति यावत् । यतेः कतरिक्तः। समाधेयं परिहर्तव्यम् । देशकालविरोधिनं देशकालविरोधीत्यर्थः ॥५॥ महद्भूतम्, मन्य इत्यनुपज्यते। विनेदुरिति । नीडो रथावयवविशेषः ॥ १५-१७ ॥ इति श्रीमहेश्वरतीर्थ. श्रीरामायणतत्त्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायो पञ्चचत्वारिंशः सर्गः ॥४५॥ तानिति । संघृताकारः गूढाकारः, अतः सञ्जातश इत्यर्थः । उत्तमा मति धेर्यम् ॥ १-३॥ इतीत्थं वक्ष्यमाणप्रकारेण कपिः शास्यताम् । यत्तैः यतमानः, अप मत्तीरेति यावत् । किश्चात्र देशकालाविरुद्ध कर्म कार्यमित्याह-कर्म चेति । देशकालविरोधिनं देशकालविरोधीत्यर्थः । आषों लिङ्गविभक्तिभ्यत्ययः । कर्म समाधेयं परिहर्तव्यम् । देशकालाविरोधिनमिति पाठे समाधेयं कर्तव्यम् ॥४॥५॥ अत्र हेतुमाह-हीति । सर्वयेति । इन्द्रेण वेति वाशब्दादन्येन वेत्यर्थः । अस्मदर्थम्
For Private And Personal