________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तस्य चैवेति । नाश्वा इति अश्वशब्देनात्र खरा उच्यन्ते । " रथेन खरयुक्तेन " इति पूर्वमुक्तत्वात् ॥१७- २० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ ततस्त इत्यादि । भवनात् तस्मात् रावणभवनात् तस्य चैव शिरो नास्ति न बाहू न च जानुनी । न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १७॥ स हतस्तरसा तेन जम्बुमाली महाबलः । पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ १८ ॥ जम्बुमालिं च निहतं किङ्करांच महाबलान् । चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ १९ ॥ स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले । अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ २० ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः । निर्ययुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ॥ १ ॥ महावलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ २ ॥
सप्तार्चिवर्चस इत्यत्र सप्ताचिति इकारान्तत्वमार्षम् ॥ १ ॥ कृतास्त्राः शिक्षितास्त्राः | आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च श्रेष्ठा इति वा । ज्ञान शिक्षे उभे अप्येषां स्त इति भावः । परस्परजयैषिणः प्रत्येकं हनुमज्जयैषिण इत्यर्थः ॥ २ ॥
नाश्वाः ' रथेन खरयुक्तेन' इत्युक्तत्वादश्वशब्देन खरा उच्यन्ते ॥ १७-२० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ तत इति । सप्तार्चिवर्चसः अर्चीति इकारान्तत्वमार्षम् ॥ १ ॥ कृतास्त्रास्त्रविदां श्रेष्ठाः कृतास्त्राणाम् अस्त्रविदां च श्रेष्ठाः । परस्पर
स० - चूर्णिताङ्ग इव द्रुमः इति पाठः । चूर्णिताङ्गः चूर्णीकृतशाखः, चूर्णीकृतावयवो राक्षसोऽपि ॥ १८ ॥ क्रोधसंरक्तलोचनः पूर्व किक्करनाशात् पुनर्जम्बुमालिनं निहतं श्रुत्वा पूर्वापेक्षया बद्धकोपं कृतवानित्यर्थः ॥ १९ ॥ अतिवीर्यविक्रमान् वीर्य वैरिपराक्रमः । तदतिक्रम्य पराक्रमो येषां तान् ॥ २० ॥ सप्तार्चिवर्चसः सप्तार्थाः प्रतिमारूपाः काली कराठी इत्यायाः अस्य सन्तीति सप्ताच वह्निः, तद्वद्वचों येषां ते तथा । यद्वा इकारान्तोऽचिशब्दोऽचिः शब्दपर्यायः । सप्त अर्चयोऽचषि शिखा यस्य सोऽग्निः " अर्चिर्मयुरशिलयोः " इति विश्वः । इकारान्तोऽप्यस्ति । " मग्नेत्रीजन्ते अर्चयः " |इतीति भानुदीक्षितलेखात् ॥ १ ॥ परस्परजयैषिणः परस्परमुत्कर्षापेक्षाः ॥ २ ॥
For Private And Personal