SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ १२४॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तोरणविटङ्कं तोरणस्य कपोतपालिका । “ कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम् ” इत्यमरः । स्तम्भोपरि तिर्यङ निहितदार्वित्यर्थः ॥ ६ ॥ एकेनेत्येतदर्धचन्द्रस्यापि विशेषणम् । अर्धचन्द्राकाराग्रशरेणेत्यर्थः । कर्णिना कर्णवच्छरेण ॥ ७ ॥ अम्बुजं रक्तपद्मम् । भास्कररश्मिना विद्धम् अत रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनुमान् वेगसम्पन्नो जहर्ष च ननाद च ॥ ५ ॥ तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम्। जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥ अर्धचन्द्रेण वदने शिरस्यैकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७॥ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥८॥ तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाऽऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ९ ॥ चुकोप बाणाभिहतो राक्षसस्य महाकपिः ॥ १० ॥ ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् । तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ११ ॥ विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ १२ ॥ भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महा बलम् । चिक्षेप सुबहून बाणान् जम्बुमाली महाबलः ॥ १३ ॥ सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १४ ॥ स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १५ ॥ अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः । परिघं पातयामास जम्बुमा लेर्महोरसि ॥ १६ ॥ एव फुलमित्यर्थः ॥ ८ ॥ रक्तं स्वत एव रक्तम् । रक्तेन शोणितेन । महापद्मं रक्तोत्पलम् । चन्दनबिन्दुभिः रक्तचन्दनबिन्दुभिः ॥ ९ ॥ चुकोपेत्य धम् । राक्षसस्य राक्षसविषये ॥ १०-१३ ॥ सालमिति । पञ्चभिर्भुजे इत्यादौ विव्याधेत्यध्याहारः ॥ १४-१६ ॥ दिगादिसमुदायगोचरमेकवचनम् ॥ ४ ॥ जहर्ष स्वबलानुरूपशत्रुमात्या ॥ ५ ॥ तोरणविटङ्कस्थं तोरणकपोतपालिकास्थम् । विटङ्को नाम तोरणस्तम्भयोरुपरि तिर्यङ्गिहितदारुः ॥ ६ ॥ कर्णिना अङ्कुशाकाराप्रशरविशेषेण ॥ ७ ॥ अम्बुजं रक्ताम्बुजम् ॥ ८ ॥ चन्दनविन्दुभिः रक्तचन्दनबिन्दुभिः ॥ ९-१६ ।। For Private And Personal टी. लूँ. कां. स० ४४ ॥ १२४॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy