________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsun Gyarmandie
राक्षसानामुत्साहभङ्ग कारयितुमाह-मादृशानामित्यादि ॥२०-२२॥ ओघवलाः ओघाख्यसङ्ख्याकबलाः॥२३-२५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायगभुषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥४३॥ संदिष्ट इत्यादि ॥१॥ विवृत्तनयनः मण्डलीकृतनयनः ॥२॥
मादृशाना सहस्राणि विसृष्टानि महात्मनाम् । बलिना वानरेन्द्राणां सुग्रीववशवर्तिनाम् ॥ २० ॥ अटन्ति वसुधां कुत्स्ना वयमन्ये च वानराः ॥ २१ ॥ दशनागबलाः केचित् केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्य विक्रमाः ॥ २२ ॥ सन्ति चौघबलाः केचित केचिद्रायुबुलोपमाः। अप्रमेयबूलाश्चान्ये तत्रासून हरियूथपाः ॥२३॥ इंदग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः। शतैः शतसहस्रैश्च कोटीभिरयुतैरपि । आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ॥२४॥ नेयमस्ति पुरी लङ्का न यूयं न च रावणः । यस्मादिक्ष्वाकुनायेन बद्धं वैरं महात्मना ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥४३ ॥
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥१॥ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः। महान विवृत्तनयनश्चण्डः समरदुर्जयः॥२॥ धनुः शुक्रधनुःप्रख्यं महद्रुचिरसायकम् । विस्फारयानो वेगेन वजाशनिसमस्वनम् ॥ ३॥
तस्य विस्फारघोषेण धनुषो महता दिशः। प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥४॥ रुचिरसायकं रुचिरसायकाईम् । विस्फारयानः विस्फारयमाणः, ज्याकर्षणं कुर्वत्रित्यर्थः । वज्राशनिसमस्वनमिति विस्फारणक्रियाविशेषणम् ॥३॥ तस्यति । नभस्समपूर्यत, दिशः प्रदिशश्च समपूर्यन्तेति विपरिणामेनानुषङ्गः ॥४॥५॥ राक्षसहृदयानि विदारयितुमाह-माहशानामित्यादि ॥ २०-२२ ॥ सन्ति चेति । ओघवलाः ओघसङ्ख्यासयातगजबलाः ॥ २३-२५ ॥ इति श्रीमहेश्वरतीर्थ - विरचिताय श्रीरामायणतत्वदीपिकाख्यायो सुन्दरकाण्याख्यायां त्रिचत्वारिंशः सर्गः ॥४३॥१॥२॥ धनुरिति । विस्फारयानः विष्फारयमाणः ॥३॥ समपूर्यत | स-मनी सुवर्णमालः । “ प्रहस्तपुत्रस्स्विह जम्बुमाली प्रामचनि प्राप्य सुवर्णमाली ॥ इति संग्रहरामायणोक्तेः ॥ २ ॥ नमः आकाशम् । दिशः प्रदिशश्च यदात्मिकास्तत्समर्पत । " साक्षिसिद्धमेव गगनं तद्भागा एव दिशो न इल्यान्तरम्" इति सुधोक्तेः ॥ ४ ॥
For Private And Personal