________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
परिगृह्याम्बरे विचचारेति सम्बन्धः ॥४०॥ ११ ॥ तस्मात् भयान्मुक्ताः दूरस्थाः इत्यर्थः ॥ १२॥४३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ १२॥ ततः स किङ्करानित्यादि ॥१॥ वनमित्यादि । ध्वंसन
[सूदयामास वजेण दैत्यानिव सहस्रदृक् । ] स हत्वा राक्षसान वीरान किङ्करान मारुतात्मजः। युद्धकांक्षी पुनवीर स्तोरणं समुपाश्रितः॥४३॥ ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः। निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ॥४२॥ स राक्षसानां निहतं महरलं निशम्य राजा परिवृत्तलोचनः । समादिदेशाप्रतिम पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ॥ ४३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशःसर्गः ॥४२॥ ततः स किङ्करान हत्वा हनुमान स्थानमास्थितः ॥ १॥ वनं भग्नं मया चैत्यप्रासादो न विनाशितः । तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् । इति सञ्चिन्त्य मनसा हनुमान दर्शयन् बलम् ॥२॥ चैत्यप्रासादमाप्लुत्य मेरुगृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनुमान मारुतात्मजः ॥ ३॥ आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः। बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः॥४॥ संप्रधृष्य च दुर्धर्ष चैत्यप्रासादमुत्तमम् । हनुमान प्रज्वलन् लक्ष्म्या पारियात्रोपमोऽभवत् ॥५॥ स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः। धृष्टमास्फोटयामास लङ्का शब्देन पूर
यन् ॥६॥ तस्यास्फोटितशब्देन महता श्रोत्रघातिना। पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ॥७॥ फलमाहदर्शयन् बलमिति । बलदर्शनामित्यर्थः ॥२॥ ध्वंसनप्रकारमाह-चैत्येति। चैत्यं देवायतनम्, तद्रूपःप्रासादः चैत्यप्रासादः तम् । आप्लुत्य । तोरणालयित्वा । हरिश्रेष्ठो हनुमान् मारुतात्मज इत्यस्योत्तरश्लोकेनान्वयः । हरियूथपत्वेप्यहरिभविष्यतीति तब्यावृत्त्यर्थ हरिश्रेष्ठ इत्युक्तम् प्रतिसूर्यः द्वितीयसूर्य इत्यर्थः । अनेन सूर्योदयस्सूचितः ॥३॥४॥ संप्रधृष्येति । संप्रधृष्य आकम्य । पारियात्रो नाम कुलपर्वतः ॥५-११॥ ॥४१-४३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ ४२ ॥ अथ रावणसन्दिष्टसेनान्तरा गमनात्पर्य तूष्णी स्थित्वा न किचित प्रयोजनमिति विचार्य प्रासादमादि चिकीर्षति-तत इति । पानमास्थित इति पाठः । ध्यानं विचारः॥१॥ चैत्यमासादा
For Private And Personal