________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Sh Kalashsagarsun Gyarmandir
संवर्तितेक्षणः परिवर्तितेक्षणः ॥२२॥२३ ॥ नाम प्रसिद्धौ । किंकर इति प्रसिद्धानित्यर्थः ॥ २४ ॥ किंकराणां सङ्ख्या निर्दिशति-तेषामिति ॥२५॥ निर्ययुरिति । सर्व इति विशेष्यम् । कूटो नाम अयस्कारकूटसदृश आयुधविशेषः । मुद्रः द्रुषणः ॥ २६॥ अवस्थित युद्धाय सन्नद्धमित्यर्थः ॥ २७ ॥
मन परिगृहीतां तां तव रक्षीगणेश्वर । कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥२१॥ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः । हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः ॥२२॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्र बिन्दवः । दीप्ताभ्याभिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः॥२३॥ आत्मनःसदृशाञ्छूरान किङ्करानाम राक्षसान् । व्यादिदेश महातेजा निग्रहार्थ हनूमतः॥२४॥ तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ॥ २५ ॥ निर्ययुर्भवनात तस्मात् कूटमुद्गरपाणयः। महोदरा महादंष्ट्रा घोररूपा महाबलाः । युद्धाभिमनसः सर्वे हनुमद्हणोन्मुखाः ॥२६॥ ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् । अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ २७॥ ते गदाभि विचित्राभिः परिधैः काञ्चनाङ्गदैः । आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ २८॥ मुद्गरैः पट्टिशैः शूलैःप्रास तोमरशक्तिभिः । परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ २९ ॥ हनुमानपि तेजस्वी श्रीमान पर्वतसन्निभः । क्षितावाविध्य लांगृलं ननाद च महास्वनम् ॥ ३०॥ स भूत्वा सुमहाकायो हनुमान मारुतात्मजः । धृष्टमास्फोट
यामास लङ्का शब्देन पूरयन् ॥३१॥ परिघैः परिषपातनैः काञ्चनाङ्गदैः काञ्चनपटैः ॥२८॥ मुद्रौति। पट्टिशो नाम लोहदण्डः तीक्ष्णधारः क्षुरोपम आयुधविशेषः । अत्रेत्थंभूतलक्षणे तृतीया । प्रासः कुन्तः। तोमरः आयुषविशेषः ॥ २९॥ श्रीमानिति तात्कालिकहर्षकृतकान्तिरुच्यते ॥३०॥ धृष्टमिति क्रियाविशेषणम् ॥ ३१ ॥ सीतया सह सम्भाषणस्य अपराधत्वं साधयन्ति-मनःपरिगृहीतामिति । राजपरिग्रहसम्भाषणं पुंसोऽपराध इति भावः ॥ २१-३५॥ व्यादिष्टाः किराः कियन्त इत्यत आह-तेषामिति । निर्ययुरित्याशुत्तर शेषः ॥ २५॥२५॥ अवस्थितं युद्धाय सनद्वम् ॥ २७ ॥ काश्चनाङ्गदे काशनभूषणैः ॥ २८-३१॥
For Private And Personal