________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
महसन्निवेत्यत्र इवशब्दो हासप्रकर्षस्य पारमार्थ्यपरः प्रीतिसूचकः । मन्दस्मितं कुर्वन्नित्यर्थः ॥ १३३ ॥ स इति । उपपन्नाभिः रामकार्यसिद्धयुचिताभिः ॥ १३४ ॥ अथेति । हित्वा शैलमहार्णवो मूर्तिमन्तौ तौ हित्वेत्यर्थः । अनेन शैलवत्समुद्रोऽपि मूर्तिमत्तया तत्रादृश्यतेति सूचितम् ॥ १३५ ॥ १३६ ॥ तद्वितीयमिति । द्वितीयं समुद्र स पर्वत समुद्राभ्यां बहुमानाद वेक्षितः । पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ १३४ ॥ अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ । पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥ १३५ ॥ भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमव लोकयन् । वायुमृनुर्निरालम्बे जगाम विमलेऽम्बरे ॥ १३६ ॥ तद् द्वितीयं हनुमतो दृवा कर्म सुदुष्करम् । प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ १३७ ॥ देवताश्चाभवन् हृष्टास्तत्र स्थास्तस्य कर्मणा । काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ १३८ ॥ उवाच वचनं धीमान् परितोषात् सगद्दम् । सुनाभं पर्वत श्रेष्ठं स्वयमेव शचीपतिः ॥ १३९ ॥ हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् । अभय ते प्रयच्छामि तिष्ठ सौम्य यथा सुखम् ॥ १४० ॥ साह्यं कृतं ते सुमहद्विक्रान्तस्य हनुमतः । क्रमतो योजनशतं निर्भयस्य भये सति ॥ १४१ ॥ रामस्यैष हि दूत्येन याति दाशरथेर्हरिः । सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥ १४२ ॥ ततः प्रहर्ष मगमद्विपुलं पर्वतोत्तमः । देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ १४३ ॥
लङ्घनापेक्षया द्वितीयं तत्पर्वतजयरूपं कर्म ॥ १३७ ॥ १३८ ॥ रामानु · - देवताश्चति । तस्य मैनाकस्य कर्मणा देवता हृष्टा अभवन् सहस्राक्षश्च हृष्टोऽभवदिति वचनविपरिणामेन संबन्धः ॥ १३८ ॥ १३९ ॥ १४० ॥ साह्यमिति । भये सति समुद्रलङ्घनेऽस्य किं भविष्यतीत्यस्माकं भये सतीत्यर्थः ॥ १४१ ॥ रामानु० - साह्यमिति । सायं सहायकर्म सहकारित्वमिति यावत् । ब्राह्मणादित्वात् ष्यञ् । ते त्वया निर्भयस्य भये सति अतिविस्तृतसमुद्रोपर्याकाशगमने समुद्रपतनादिभयनिमित्तसंभावनायामपि निर्भयस्य ॥ १४१ ॥ १४२ - १४४ ॥ | पितुः पन्थानं वायुमार्गम् ॥ ३५ ॥ ३६ ॥ तदिति । समुद्रलङ्घनं प्रथमं कर्म, द्वितीयं मैनाकगिरावविश्रम्य गमनम् ॥ ३७॥ देवताश्चेति । वासवश्च हृष्ट इति सम्बन्धः ॥ ३८-१४० ॥ साह्यमिति । साह्यं सहायकर्म, सहकारित्वमिति यावत् । ते तव मन्निमि नभये सत्यपि निर्भयस्य इनूमतः साह्यं कृतम् अतः अभयं प्रयच्छामीति
For Private And Personal