________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie
॥८॥
पापादपूरणे ॥ १२३-१२६ ॥ अस्मिन्निति । समग्रः समग्रपक्षः, गुप्तसमग्रपक्षश्च यथा भवामि तथा अभिरक्षितोऽस्मीत्यर्थः ॥ १२७-१३० ॥ रामानु०-श्रमामिति । मोक्षष मुञ्च । “ मोम निरसने " इति चौरादिको धातुः ॥ १३०॥ १३१ ॥ प्रीतोस्मीति । कृतमातिथ्यं तव दर्शनादिनेति भावः ।मन्युः कोपः, सा
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः। भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ १२४॥ ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः । पक्षांश्चिच्छेद वजेण तत्र तत्र सहस्रशः ॥ १२५ ॥ स मामुपगतः क्रुद्धो वजमुद्यम्य देवराट् । ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ १२६ ॥ अस्मिल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम । गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः ॥ १२७॥ ततोऽहं मानयामि त्वां मान्यो हिमम मारुतः । त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ॥ १२८ ॥ तस्मिन्नेवंगते कार्य सागरस्य ममैव च। प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥ १२९॥ श्रमं मोक्षय पूजां च गृहाण कपिसत्तम । प्रीतिं च बहु मन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥ १३० ॥ एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ॥ १३१ ॥ प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् । त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते । प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे ॥ १३२ ॥ इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः । जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥ १३३ ॥ मत्कृता पूजा न गृहीतति कोपो निरस्यतामित्यर्थः । कार्यकालः त्वरते शीघ्रं गच्छति मा प्रेरयति । अहश्चाप्यतिवर्तते, अब विलम्बः क्रियते चेदिद। महोऽतिवर्तते इत्यर्थः । इह समुद्रे अन्तरे मध्ये मया न स्थातव्यमिति वानरसन्निधौ प्रतिज्ञा कृता ॥१३२॥ रामानु-वरते कार्यकाल इति । कार्यः करणयोग्यः | कालः कार्यकालः त्वरते त्वरयाति । अहचाप्यतिवर्तते लशादीपप्रवेशयोग्यमहातिवर्तते। प्रतिज्ञा चेति । “यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः । गच्छेत्तद्गामष्यामि ला रावणपालिताम।"A इति प्रतिज्ञा दत्ता तस्मादिहान्तरे न स्थातव्यम् ॥ १३२ ॥ इत्युक्त्वोते । प्रहसन्निव प्रसन्नमुख इवेत्यर्थः ॥ १३३ ॥ १३४ ॥ रामानु०-इत्युक्त्येति । आलभ्य स्पृष्ट्वा ८॥ एवंगते प्राप्ते सति । कार्ये उपकाररूपकायें । प्रीति कर्तुमर्हसि, पूजास्वीकारेणेति भावः ॥ २९-१३१ ॥ मन्युः पूजानङ्गीकारनिबन्धनं देन्यम् । कार्यकालः लङ्काप्रवेशकालः । स्वरते विलम्ब न सहते ॥ ३२ ॥ आलभ्य स्पृष्ट्वा । प्रहसन्निव प्रसन्नमुखस्सन् ॥ ३३ ॥ ३४ ॥
For Private And Personal