________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyarmandir
www.kobatirth.org
शएवास्य संमानमित्यर्थः ।। ११४ ॥ ११५ ॥ चोदनाप्रकारमाह-योजनानामिति । प्रकमतामिति प्रचोदित इति पूर्वेणान्वयः ॥ ११६॥ रामानु-त्वनि मित्तमित्यादिश्लोकद्धयमेकं वाक्यम् । एष कपिः योजनानां शतं चापि समाष्ठतः समापतितुमुपक्रान्तः तव सानुषु विश्रान्तः शेष मार्गशेष प्रक्रमतामिति त्वानिमित्वम् अहम् अनेन सागरेण बहुमानात प्रचोदितः, अतः कपिशाईल स्विं तिष्ठ मयि विश्रम्य गम्यतामित्यन्वयः॥१५॥१६॥ तदिति । तत्प्रसिद्धम् । कन्दः करहाटः मूलं पादः तत्तस्मात्॥११७॥अस्माक
योजनानां शतं चापि कपिरष समाप्लुतः। तब सानुषु विश्रान्तश्शेषं प्रक्रमतामिति ॥ १६॥ तदिदं गन्धवत् स्वादु कन्दमूलफल बहु। तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि ॥ १७॥ अस्माकमपि सम्बन्धः कपिमुख्य त्वयाऽस्ति वै। प्रख्यातत्रिषु लोकेषु महागुणपरिग्रहः॥ १८॥ वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज । तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ ११९ ॥ अतिथिः किल पूजाहः प्राकृतोऽपि विजानता । धर्म जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ १२० ॥ त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः । पुत्रस्तस्यैव वेगेन सदृशः कपि कुञ्जर ॥ १२ ॥ पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः । तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्
॥ १२२ ॥ पूर्व कृतयुगे तात पर्वताः पक्षिणोऽभवन् । ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः॥ १२३ ॥ मिति । प्रख्यात इति सम्बन्धविशेषणम् ।महागुणानां परिग्रही यस्मिन्स तथा॥११८ारामानु--हनुमतः पूज्यतमत्वे हेत्वन्तरं दर्शयति--अस्माकमपीत संबन्धः अतिथ्य तिथिमद्भागलक्षणः महागुणपरिग्रहः. परिगृह्यत इति परिग्रहः, महागुणानां सतां परिग्रहः महाशुणपरिग्रहः ॥ १८॥ ११९-१२२ ॥ रामानु० अतिथिरिति । त्वादृशो महानिति पाठः ॥ १२० ॥ किंचातियेस्तव पूजायाँ काम्यार्थमिटिबद्वायोरपि प्रत्युपकारासिद्धिः स्यादित्याह-त्वं होत्यादिना ॥ १२१॥ संबन्धं विवृणोति-पूर्वमित्यादिना । पक्षिणः पक्षवन्तः। हिः कपिः योजनानां शतं समाप्लुतः समाप्लवितुमुपक्रान्तः। शेष मार्गशेष प्रक्रमतामिति त्वन्निमित्तमनेन सागरेणाहं बहुमानात्प्रचोदितः, अतः कपिशार्दूल ! वं तिष्ठ मयि विश्रम्य गम्यतामित्यन्वयः ॥ १५॥ १६ ॥ तदिति । तत् प्रसिद्धम् ॥ १७ ॥ अस्माकमिति । महागुणपरिग्रहः महागुणेन वायुना परिग्रह्मत इति तथा ॥ १८ ॥ १९॥ अतिथिरिति । त्वाहशो महानिति पाठः ॥ १२०-१२८ ॥
For Private And Personal