________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स० १
॥७॥
.रा.भू. तप्तेति । शस्त्रसङ्काशं नीलमित्यर्थः । " शस्त्रमायुधलोहयोः " इति विश्वः ॥ १०६ ॥ १०७ ॥ तमिति । निश्चितः निश्चितवान् । कर्तरि टी.सु.को. निष्ठा ॥ १०८ ॥ १०९ ॥ रामानु० स तमिति । जीमूतमिव मारुत इत्यनेन पर्वतम् अनायासेन पातितवानिति योत्यते ॥ १०९ ॥ जहर्ष विसिष्मिये ॥ ११० ॥ तप्तजाम्बूनदैशृङ्गैः पर्वतस्य समुत्थितैः । आकाशं शस्त्रसङ्काशमभवत् काञ्चनप्रभम् ॥ १०६ ॥ जातरूपमयैः शृङ्गैर्भ्राजमानैस्स्वयंप्रभैः । आदित्यशतसङ्काशस्सोऽभवद्भिरिसत्तमः ॥ १०७ ॥ तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् । मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ १०८ ॥ स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः । उरसा पातयामास जीमूतमिव मारुतः ॥ १०९ ॥ स तदा पातितस्तेन कपिना पर्वतोत्तमः । बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ ११० ॥ तमाकाशगतं वीरमाकाशे समुपस्थितः । प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् । मानुषं धारयन् रूपमात्मनश्शिखरे स्थितः ॥ १११ ॥ दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम । निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥ ११२ ॥ राघवस्य कुले जातैरुदधिः परिवर्द्धितः । स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥ ११३ ॥ कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः । सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ॥ ११४ ॥ त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः । तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ॥ ११५ ॥ रामानु०-तदेति । जहर्ष च ननन्द चेति पदद्वयेन कायमनसोवकृतिरुच्यते । अस्य वेगेन ग्लानिराहित्यं बुद्ध। हृष्टमना वभूवेत्यर्थः ॥ ११० ॥ तमिति । प्रीतः प्रीतिद्योतकव्यापारः | ॥११॥ १२ ॥ रामानु० - तमिति । मीतः सुखितः । हृष्टमनाः प्रसन्नमनाः ॥ ११ ॥ दुष्करमिति । विश्रनस्वेति श्रमिरात्मनेपदी कश्चिदस्ति । तथा चोक्तं भट्टमलेन -" विश्राम्यतीति विश्रान्तों कच्चिविश्रमतेपि च " इति ॥ १२ ॥ १३॥ कृत इति । कृते उपकारे त्वत्प्रतिकारार्थी स्वदातिथ्यकरणापेक्षी । त्वत्तः संमानमईतीति त्वया तत्कृतातिथ्यपरिग्रह द्वयमेकं वाक्यम् । शातकुम्भमयैः शृङ्गैरुपलक्षितः ||४||५|| शस्त्रसङ्काशं शस्त्रश्याममाकाशम्, काञ्चनप्रभं कनकगौरमासीदित्यर्थः ॥ ६ ॥ ७ ॥ असङ्गेन एकाकिना ॥८॥९॥ जहर्ष च ननन्द व इत्यनेन कायमनसोर्विकृतिरुच्यते ॥ ११०-१३ ॥ कृते चेति । कृते उपकारे सोऽयमुदधिः तत्प्रतिकारार्थी इति पाठः । तस्योपकारस्य प्रत्युपकारार्थी त्वत्तस्सम्मानमर्हति त्वत्सकाशात् त्वत्स्वीकाररूपां पूजां मातुं योग्यो भवतीत्यर्थः ॥ ११४ ॥ त्वन्निमित्तमित्यादि श्लोकद्वयमेकं वाक्यम् । एष
|
For Private And Personal
॥ ७॥