________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyarmandir
www.kobatith.org
स.४१
पा.रा.भू. व्याकुलावरणा आवरणादुपनायाकुलाः। विह्वलाः खिय इव॥१८॥ व्यालमृगैःश्वापदादिखिमृगैःनिर्धतः पीडितेः । गृह केवलः ॥१९॥सेतिटी .
शोच्यत इति शोकः । प्रतानं विततिः । अशोकम् अशोच्यम् लताप्रतानं यस्पास्ता अशोकलताप्रताना । दशास्पप्रमदावनस्य भोगवर्धनेन रावण वनितारक्षकस्य । प्रमदावनस्य अन्तःपुरोयानस्य। सा वनस्थली तृणगुल्मलतादिविशिष्टप्रदेशः। कर्बलाद्धि विह्वला लुलिता शोकलताप्रताना च व्याकुलावरणा रेजुर्विह्वला इव ता लताः॥ १८॥ लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैालमृगैश्च निर्धतैः। शिला गृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभृन्महदनम् ॥ १९॥ सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलता प्रताना । जाता दशास्यप्रमदावनस्य कर्बलाद्धि प्रमदावनस्य ॥२०॥ स तस्य कृत्वाऽर्थपतेर्महाकपिमहद्यलीकं मनसो महात्मनः । युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ॥२१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥४१॥ जाता। यद्धा शोकलताश्शोकरताः। रलयोरभेदः । अप्रतानाः अप्सु प्रतानाः कमलकल्हारादयोऽस्यां सा शोकलतापताना । म्लानजलजेति यावत् ।। दशास्यप्रमदावनस्य रावणप्रमदावनस्य । “ड्यापोस्संज्ञाच्छन्दसोर्बहुलम्" इति बहुलवचनाद्धस्वाभावः । दशास्यप्रमदावनस्य वनस्थलीत्यत्र शिला पुत्रकस्य शरीरमितिवदुपचारात् षष्ठी । प्रमदावनस्य सीतारूपप्रमदापालकस्य । वनस्थली कपर्वलाद्विवला शोकलताप्रताना च जाता । अशोकलते त्युपलक्षणम् ॥२०॥ स इति । अर्थपतेः राज्ञो रावणस्य । मनसः व्यलीकम् अप्रियम् पीडनं वा । “अलीकं त्वप्रियाकार्यवैलक्ष्यानृतपीडने" इति निघण्टुः । युयुत्सुः योद्भुमिच्छुः । तोरणम् उद्यानबहिारम् । “तोरणोऽस्त्री बहिरम्" इत्यमरः ॥२१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥११॥ सा विद्धलेति । प्रमदावनस्य अन्तःपुरविहारवनस्येत्यर्थः । " स्यादेतदेव प्रमदावनमन्तःपुरोचितम् " इत्यमरः । " ब्यापोः संज्ञाच्छन्दसोर्बहुलम्" इति बहुल
IN॥१२०० ग्रहणादनियतो स्वः । अत एव दशास्वप्रमदावनस्य दशास्यप्रमदानां स्त्रीणां भोगसंवर्द्धनद्वारा अवनस्य रक्षकस्य । अशोकलतामताना अशोकलतासमूहा वनस्थली तृणगुल्मलताजलाशयादिभिः पूर्णभूमिः कपेबलात् शोकलतापताना, शोच्यत इति शोकः शोच्यलतामताना जातेति योजना ॥ २०॥ स इति । अर्थ तापतेः राज्ञो रावणस्य । ग्यलीकम् अमियम् ॥ २१॥ इति श्रीमहेश्वरती० श्रीरामायणतत्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायाम् एकचत्वारिंशः सर्गः ॥४१॥5I
For Private And Personal