________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मां च । सारवत् मानयेत्परिच्छिन्द्यात् ॥८॥ बलप्रयायिना सेनान्या सह वर्तत इति सबलप्रयायी तम् । तस्य हृदि स्थितं मतं सीताविषयाध्यव सायं बलं च मत्वा सुखेन इतः अस्मात् स्थानात् पुनः बजे ब्रजिष्यामि ॥ ९॥ इदामिति । नेत्रमन कान्तम्, वर्तत इति शेषः ॥ १० ॥११॥ तत
नतः समासाद्य रणे दशाननं समन्त्रिवर्ग सबलप्रयायिनम् । हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाऽहमितः पुनर्बजे ॥ ९॥ इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । वनं नेत्रमन कान्तं नानाद्रुमलतायुतम् ॥ १० ॥ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन् भने ततः कोपं करिष्यति दशाननः ॥ ११॥ ततो महत् साश्व महारथद्विपं बलं समादेष्यति राक्षसाधिपः। त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ॥ १२ ॥ अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः । निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ १३॥ ततो मारुतवत् क्रुद्धो मारुतिीमविक्रमः। ऊरुवेगेन महता द्रुमान क्षेप्तुमथारभत् ॥१४॥ ततस्तु हनुमान् वीरो बभञ्ज प्रमदावनम् । मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ १५ ॥ तदनं मथितेवृक्ष भिन्नैश्च सलिलाशयैः । चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ १६ ॥ नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयः।
ताप्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । न बभौ तदनं तत्र दावानलहतं यथा ॥ १७॥ इति । समादेक्ष्यति नियोजयिष्यति । इदम् अव्यवहितोत्तरकालिकम् । कपीश्वरालयमित्यनन्तरमितिकरणं द्रष्टव्यम् । इति चिन्तयामासेत्यन्वयः॥१२॥ १३॥ ततः तेन चिन्तितेन हेतुना॥१४॥प्रमदावनम् अन्तःपुरवनम् । “प्रमदावनमन्तःपुरोचितम्" इत्यमरः ॥१५॥ पर्वताः क्रीडापर्वताः॥१६॥१७ रामानु-नानाशकुन्तविरुतैः प्रभित्रैस्सलिलाशयरित्यतः परम् ताम्रः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । न बभौ तदनं तत्र दावानलहतं यथा इति पाठक्रमः ॥ १७ ॥ साधेन । तपेव खलु युद्धकरणे बल्ल, दशाननः आत्मबलं स्वपक्षवलं मां च सारवत् सम्मानयेत सम्पक परिच्छिन्द्यात् ॥ ८॥ सबलप्रयापिनं ससैन्यम्, इदि स्थितं | मतं तनिश्चयम् ॥ ९-१२ ॥ कपीश्वरालपमित्यत्र इतिशब्दो द्रष्टव्यः । तस्य चिन्तयामासेति पूर्वेण सम्बन्धः ॥ १३-१९॥
For Private And Personal