________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चा.रा.भू.
११९॥
स.४१
इति। मम तु इह रक्षोविषये पराकम एवं रोचत इति संबन्धः ॥ ३॥४॥“अभिगम्य तु वैदेही निलयं रावणस्य च " इत्यनुज्ञातस्यातिरिक्तकार्य टी..को करणे दोषमाशङ्कय परिहरति-कार्य इति । कार्ये विहिते कर्तव्ये, बहूनि कार्याणि ॥५॥न हीति । अल्पस्यापि कर्मणः एको हेतुस्साधको न किमुत ।। महतः कर्मण इति भावः। बहुधा बहुभिर्हेतुभिः॥६॥ पूर्वोक्तसमर्थनायाह-इहैवेति । अहमिहेव । परात्मसंमर्दविशेषतत्त्ववित् परात्मनोर्युद्धतारतम्यतत्त्व ।
कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । पूर्वकार्याविरोधेन स कार्य कर्तुमर्हति ॥५॥न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः। यो ह्यर्थ बहुधा वेद स समर्थोऽर्थसाधने ॥६॥ इहैव तावत् कृतनिश्चयो ह्यहं यदि बजेयं प्लवगेश्वरालयम् । परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ ७॥ कथं नु खल्वद्य
भवेत् सुखागतं प्रसह्य युद्धं ममराक्षसैः सह । तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ॥८॥ वित् कृतनिश्चयः कृतबलाबलनिश्चयः सन् यदि प्लवगेश्वरालयं ब्रजेयं ततः भर्तृशासनं सीतादर्शनरावणनिलयसम्यक्पारज्ञानविषयं शासनम् । शतावत् साकल्येन कृतं स्यात् । अन्यथा राक्षसबलाबलं कीदृशमिति भर्ना पृटे निरुत्तरः स्यामिति भावः ॥७॥ कथं न्विति । युद्धं कथं मुखागतं सुखेन ।
प्राप्तं भवेत्तथा कर्तव्यमित्यर्थः । युद्धस्य फलमाह-तथैवेत्यादिना साईलोकेन । तथैव खलु युद्धकरणे खलु । सः दशाननः । रणे आत्मबलं स्वपक्षबलं कारणमत आह हतेति । हताः प्रवीराः मुख्याः येषां ते हतप्रवीराः । यतः कतिपयवधे शेषा मार्दवमीयुः अतः पराक्रम एवं रोचत इत्यर्थः ॥४॥"अधिगम्य तु वैदेहीं निलयं रावणस्य च" इत्यनुज्ञातव्यतिरिक्तकार्यकरणे दोषमाशङ्कच परिहरति-कार्य इति । कार्ये कर्तव्ये कर्मणि, बहूनि कार्याणि ॥५॥ स्वल्पस्यापि कर्मणः पको हेतुः न साधको भवति, किमुत महतः कर्मण इति भावः । अर्थ कार्य बहुधा बहूपायसाध्यं यो वेद ॥ ६ ॥ ननु स्वामिना निर्दिष्टसीतादर्शनं कृत
१शन
॥१९॥ मेव, अन्यत्तु सुग्रीवसनिधो भविष्यतीत्यत आह-इहेवेति । परात्मसम्मर्दविशेषतत्त्वविदहं परस्य आत्मनश्च सम्म युद्धतारतम्यं तस्य तत्त्ववित् कृतनिश्चयः कृत बलाबलनिश्चयस्सन् यदि पूवगेश्वरालयं व्रजेयं ततो मम भर्तृशासनं सीतादर्शनरावणनिलयसम्पपरिज्ञानविषयं शासनं तावत् साकल्येन कृतं स्यात, अन्यथा राक्षसबलाबलं कीदृशमिति भर्चा पृष्टो निरुत्तरस्स्यामिति भावः ॥७॥ युद्धं सुखागतं सुखेन प्राप्तं भवेत् तथा, कर्तव्यमिति शेषः । युद्धस्य फलमाह-तथैवेत्यादिना
For Private And Personal