________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Se Kailashsagarsuti Gyarmande
NI श्रुत्वेत्यादि ॥ १॥ त्वामिति । अर्धसञ्जातसस्या अर्थोत्पन्नसस्या ॥२॥३॥ अभिज्ञानं चेति । काकस्यैकाशिशातनी क्षिप्ताम् इषीकाम् इषीकतृण । रूपमभिज्ञानं पूर्वोक्तं दद्याः । अन्यच्च वक्ष्यामीति भावः । तदेवाह-मन इति । तिलके पूर्वतिलके प्रनष्टे सति। गण्डपाचे गण्डस्थले गण्डशैलपार्थे वा।
श्रुत्वा तु वचनं तस्य वायुमूनोर्महात्मनः । उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥१॥ त्या दृष्वा प्रियवक्तारं संप्रहृष्यामि वानर । अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ॥२॥ यथा तं पुरुषव्याघ्र गात्रैः शोकाभिकर्शितैः। संस्टशेयं सकामाऽहं तथा कुरु दयां मयि ॥३॥ अभिज्ञानंच रामस्य दद्या हरिगणोत्तम । क्षिप्तामिषीका काकस्य कोपादेकाक्षिशातनीम् ॥ ४॥ मनःशिलायास्तिलको गण्डपावे निवेशितः । त्वया प्रनष्टे तिलके तं किल स्मर्तु मर्हसि ॥५॥ स वीर्यवान कथं सीतां हृतां समनुमन्यसे । वसन्ती रक्षसां मध्ये महेन्द्रवरुणोपमः॥६॥ एष चूडामणिर्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥७॥ एष निर्यातितः श्रीमान् मया ते वारिसम्भवः । अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥८॥ असह्यानि च दुःखानि वाचश्च हृदय च्छिदः । राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥९॥ धारयिष्यामि मासं तु जीवितं शत्रुमूदन । मासादूर्व
न जीविष्ये त्वया हीना नृपात्मज ॥१०॥ मनःशिलायास्तिलकः मनःशिलाकृततिलकः । तत् मनःशिलातिलकनिर्माणं स्मर्तुमर्हसि । इदमप्यभिज्ञान दद्या इति याजना ॥ ४-६ ॥ एष इति । प्रहृष्यामीति । अस्य चूडामणेस्त्वया बहुशो लालितत्वेन त्वत्स्मारकत्वादिति भावः ॥७॥ वारिसम्भवः, रत्नं हि रत्नाकरे उत्पद्यते । अतः परं । आत्महितम् आत्मदुःखोद्धारप्रयोजनम् ॥ १॥ अर्धसातानि अर्धवयःप्राप्तानि । ततः परं जलाभावादनशेराणि प्तस्वानि यस्पारसा । या देवारसम्पन्नवृष्टचा सम्पन्नसस्या भवति तथा अहमपि प्राप्तजीवितनाशा अमृतोपमात्त्वदर्शनाद् धृतजीवितेति भावः ॥२॥३॥ अभिज्ञानान्तरं दास्यामीत्याह-अभिज्ञानमित्यादि। एकाक्षिशातनी क्षिप्तामिषीकाम् इषीकामनु ॥४॥ तिलके प्रनष्टे मनश्शिलाचास्तिलकः त्वया गण्डपाचे निवेशितः किल, तं स्मतुमईसीत्यभिज्ञानं च रामस्य ।
रामाय दत्तं भवतीति योजना ॥५-८ ॥ असह्यानीति । त्वत्कृते त्वत्प्राप्त्याशया॥९॥१०॥ INI स-मासा मियुतिस्तु कालेऽधिक सत्यपि तंत्रागमनाभिप्रायेण वा दिनेषु सत्स्वपि आत्मघाताभिप्रायेण वेति ज्ञातव्यम् ॥ १०॥
NE
For Private And Personal