________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पा.रा.भ.
टी.सं.का. स० ३९
विधमिष्यतः दहिष्यतः॥४२॥४३॥ तदिति । कालकांक्षिणी भव दिवसगणनायां तत्परा भवेत्यर्थः । नाचिरात् अचिरात् ॥४४-४६ ॥ एवमिति पुनरवीदिति दाढर्याय पुनरुक्तिः ॥४७-१९॥ शैलाम्बुदेति । द्रक्ष्यसीति शेषः ॥५०॥५०॥ मा रुदः रोदनं मा कुरु ॥५२॥५३॥ नास्मिान्नति
सगणं रावणं हत्वाराघवो रघुनन्दनः । त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ ४३॥ तदाश्वसिहि भद्रं ते भव त्वं कालकांक्षिणी । नचिराद्रक्ष्यसे रामं प्रज्वलन्तमिवानलम् ॥१४॥ निहते राक्षसेन्द्रेऽस्मिन् सपुत्रामात्यवान्धवे । त्वं समेष्यास रामेण शशाङ्कनेव रोहिणी ॥४५॥ क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि। रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥४६॥ एवमाश्वास्यवैदेही हनुमान मारुतात्मजः । गमनाय मतिं कृत्वा वैदेही पुनरब्रवीत ॥४७॥ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् *॥४८॥ नखदंष्ट्रा युधान वीरान सिंहशार्दूलविक्रमान। वानरान् वारणेन्द्राभान क्षिप्र द्रक्ष्यसि सङ्गतान् ॥४९॥ शैलाम्बुदनिकाशाना लङ्कामलयसानुषु । नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः॥५०॥ सतु मर्मणि घोरेण ताडितो मन्मथेषुणा। न शर्मलभते रामः सिंहार्दित इव द्विपः॥५१॥ मा रुदो देवि शोकेन मा भूत् ते मनसोऽप्रियम् । शचीव पत्या शक्रेण भर्चा नाथवती ह्यसि॥५२॥ रामाद विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः। अनिमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥५३॥ नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौं।न ते चिरादागमनं प्रियस्य
क्षमस्व मत्सङ्गमकालमात्रम् ॥५४॥ इत्यार्षे श्रीरामायणे वाल्मी. श्रीमत्सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः ॥३९॥ मत्सङ्गमकालमात्रं मम रामेण सङ्गमकालमात्रम् ॥५४॥ इति श्रीगोविन्द श्रीरामा० शृङ्गारतिल सुन्दरकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः॥३९॥ कालकाहिणी भव दिवसगणनायो तत्परा भव ॥ ४४-१९ ॥ यथान्यनेकश इत्यत्र द्रक्ष्यसीत्यनुषङ्गः ॥५१-५॥ मत्सङ्गमकालमा मम रामेण सङ्गमकाल मात्रमित्यर्थः ॥ ५४॥ इति श्रीमहेन्धरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डण्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
सुपीवसहितं शूरं वानरैः परिवरितम् । क्याधिक कुत्रचित् एश्यते ।
For Private And Personal