________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
जीवन्ती सम्भावयति जीवन्ती करोतीत्यर्थः । तत्तथा अव्ययमेतत् । वचनस्य प्रयोजनमाह-वाचेनि । वाचा धर्म वाचिकधर्मम् ॥ १० ॥ तमेव । धर्ममुपपादयति द्वाभ्याम्-नित्यमित्यादि ॥११-१५॥ पर्जन्यम् इन्द्रम् । “ पर्जन्यौ रसदब्देन्द्रौ" इत्यमरः ॥१६॥स हीनि । त्वनिमित्त इति ।
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् । तत्तथा हनुमन वाच्यं वाचा धर्ममवाप्नुहि ।। १०॥नित्यमुत्साह युक्ताश्च वाचः श्रुत्वा त्वयरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥११॥ मत्सन्देशयुतावाचस्त्वत्तः श्रुत्वैव राघवः । पराक्रमविधिं वीरो विधिवत् संविधास्यति ॥ १२॥ सीताया वचनं श्रुत्वा हनुमान मारुतात्मजः । शिरस्यअलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ १३॥ क्षिप्रमेष्यति काकुत्स्थो हप॒क्षप्रवरैर्वृतः । यस्ते युधि विजित्या रीन शोक व्यपनयिष्यति ॥ १४॥ नहि पश्यामि मर्येषु नासुरेषु सुरेषु वा । यस्तस्य क्षिपतो बाणान् स्थातु मुत्सहतेऽग्रतः ॥१५॥ अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्। स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ १६॥ स हि सागरपर्यन्तां महीं शासितुमीहते। त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ १७॥ तस्य तद्वचनं श्रुत्वा सम्यक सत्यं सुभाषितम् । जानकी बहुमेनेऽथ वचनं चेदमब्रवीत् ॥१८॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥१९॥ यदि वा मन्यसे वीर वसैकाहमरिन्दम। कस्मिंश्चित
संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥२०॥ जयः, भविष्यतीति शेषः ॥ १७ ॥ सम्यक् सोपपत्तिकम् । सत्यं परमार्थम् । सुभाषितं श्रुतिमधुरम् ॥१८॥ वचनं चेदमत्रत्रीदित्युक विवृणोतिततस्तमिति । भर्तृस्नेहान्वितम् आत्मनि यो भर्तुः स्नेहस्तेनान्वितम् । स्वविषषभर्तृहप्रकाशकमिति यावत् । अनुमानयदन्यमानयत् । वक्ष्य माणोक्तिरूपं संमानवचनमब्रवीदित्यर्थः ॥ १९-२२॥ उक्तार्थमेवादरेण पुनराह-मत्सन्देशयुता इति ॥१२-१८॥ तत इति । भर्तुः स्नेहान्वितम् आत्मनि यो भर्तुः स्नेहः तेनान्वितम, रामस्य स्वविषये स्नेहप्रकाशक मिति यावत् । वाक्यं पूर्वोक्तं हनुमतो वचनम् । अतुमानयत सम्मानयन्ती इति पूर्वेण सम्बन्धः ॥ १९॥ यदीति ! एकाहं बस, तेन किम् । करिमाधिदिति ॥२०॥
For Private And Personal