SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भ. ११२५॥ - मणिमित्यादि । अभिज्ञातं सम्यक् ज्ञातम् ॥ १॥त्रयाणामिति “अधीगर्थदयेशां कर्मणि" इति षष्ठी । विवाहकाले शिरोमणिदातृत्वात्पित्रोटी . ग्रहीतृत्वाच्च मम स्मरणमिति भावः। पाणिग्रहणोत्सवे मम श्वशुराभ्यां प्रथमं शिरोभूषणतया एष दत्तः। अतः श्रीनसान युगपत समरिष्यतीत्यर्थ . इत्याह कश्चित् । तदनुचितम् । “मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले तथा बद्धमधिकं मूर्ध्नि शोभते " इत्युपरि वक्ष्यमाणत्वाद्विवाह मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीत् । अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः॥१॥ मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति । वीरोजनन्या मम च राज्ञो दशरथस्य च ॥२॥ स भूयस्त्वं समुत्साहे चोदितो हरि सत्तम । अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ ३॥ त्वमस्मिन् कार्यनियोग प्रमाणं हरिसत्तम। हनुमन यत्नमास्थाय दुःखक्षयकरो भव । तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ॥४॥ स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः। शिरसाऽऽवन्ध वैदेहीं गमनायोपचक्रमे ॥५॥ ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् । बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ॥ ६॥ कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ॥ ७॥ सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान् । ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ ८॥ यथा स च महाबाहुर्मा तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥९॥ काले रामजनन्या अनागमनाच्च ॥२॥३॥ त्वमिति । कार्यनियोंगे कार्यसलटने । प्रमाणं व्यवस्थापकः । चिन्तयतस्तस्य, तवेति शेषः ॥ ४ ॥ स तथेति । आवन्यति पदच्छेदः॥५॥६॥ कुशलमिति । ब्रूया इति । धर्मसंहितं धर्मसहितम् । धर्मपुरस्सरम् कुशलं या इत्यर्थः ।। ७ ।। ८॥ दु:खाम्बुसंरोधात् । अम्बूनि संरुध्यन्ते अनेनेत्यम्बुसंरोधः जलधिः। समाधातुं राममनुकूलयितुम् ॥ ९॥ मणि दत्त्वा रामस्यैतदभिज्ञातमभिज्ञानमित्यवीदिति सम्बन्धः ॥ १॥ त्रयाणां संस्मरियति । त्रयाणामिति कर्मगि पठी: पाणिप्रहनकाले मम जननी इमं मणि दशरथसन्निधौ जनकहस्तादादाय शिरोभूषणतया मह्यं दत्तवती अतो मम जननी दशरथं जनकं मां च स्मरिष्यतीत्यर्थः॥२३॥ कार्यनियोंमे कार्यसकटने । प्रमाणं व्यवस्थापकः ॥४-८॥ दुःखाम्बुसंरोधात् अम्बुसंरोधो जलधिः। दुःखसागरादित्यर्थः। समाधातुं वमित्यर्थः ॥ ९-११।। For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy