________________
Shri Mar
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
m
andir
पा.रा.भू. ॥११॥
टी.मुं.का.
तवेति । दुःखाहुःखपरामृष्टां पूर्वदुःखादधिकेन दुःखेन स्पृष्टाम् । दीपयन्निव वर्धयन्निवेत्यर्थः ॥२३॥ अयमिति । अयं वक्ष्यमाणः, तिष्ठतीव मूर्ती । भूत इत्यर्थः ॥२४-२६॥ समाधानं परिहारम् ॥ २७॥ अहमेव साधयिष्यामीत्याशङ्कयाह-काममिति । हे परवीरन ! त्वम् अस्य कार्यस्य सर्वेषा
मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर । अस्य शोकस्य महतो मुहूर्त मोक्षणं भवेत् ॥२१॥ गते हि हरि शार्दूल पुनरागमनाय तु । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ २२ ॥ तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखाहुःखपरामृष्टां दीपयन्निव वानर ॥२३॥ अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः । सुमहाँ स्त्वत्सहायेषु हर्युक्षेषु हरीश्वर ॥२४॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यक्षसैन्यानि तौ वा नरवरात्मजौ ॥२५॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने । शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥२६॥ तदस्मिन् कार्यनियोंगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं त्वं हि कार्यविदा वरः ॥२७॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते फलोदयः ॥२८॥ बलैः समग्रैयदि मां रावणं जित्य संयुगे । विजयी स्वपुरी यायात् तत्तु मे स्याद्यशस्करम् ॥२९॥ शरैस्तु सङ्कुलां कृत्वा लङ्का परबलादेनः । मां
येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ३०॥ राक्षसवधपूर्वकमत्प्रापणरूपस्य परिसाधने कामं पर्याप्तः शक्तः। एवं चेत्फलोदयः शक्तिसमृद्धिः । ते यशस्यः तव यशस्करः । न तु ममति भावः । M॥२८॥ तर्हि तव किं यशस्यमित्याकाङ्क्षायामाह-बलैरिति । जित्य जित्वा । मां, गृहीत्वति शेषः । यायात्, राम इति च शेषः॥२९॥ एतन्न केवलं मम, मम चेदिति श्वो गमिष्यसि चेदित्यर्थः ।। २१-२२ ॥ तवेति । दुःखाहुःखपरामृष्टाम् अतिदुःखं प्राप्तामित्यर्थः । दुःखं दुःखपरामृष्टामिति पाठे-दुःखं मां दीपयत्। ज्वलयदिव परितापयेदिति सम्बन्धः ॥ २३ ॥ सन्देहः वक्ष्यमाणः । तिष्ठतीव ममाग्रता, मूर्तीभूत इति शेषः हर्यक्षेषु विषये ॥ २४ ॥ सन्देहमेवाह-कथं न्वित्यादि N॥ २५ ॥ २६ ॥ कार्यनियोंगे कार्यसकटने । समाधानम् उपाय इत्यर्थः ॥ २७ ॥ माऽस्तु रामादीनामबागमनम् अहमेव सर्व साधयिष्याभीत्यत आहकाममिति । अस्य कार्यस्य रावणादिवधपूर्वकमन्मोक्षणस्य कामं पर्याप्तः शक्तः, एवं चेत्फलोदयः शक्तिसमृद्धिः ते तवैव यशस्करःन तु ममेति भावः।। २८॥ तर्हि तव किं यशस्करमत आह-बलेरिति । माम, गृहीत्वेति शेषः । यायात, राम इति शेषः ॥ २९ ॥ एतद्रामस्यापि यशस्करमित्याह-शरैरिति ॥ ३०॥
पा॥११६॥
For Private And Personal