________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
गतः तेन त्रैलोक्याधिपतिना च त्यक्तः। “इन्द्रो महेन्द्रस्सुरनायको वा" इति तस्यासमर्थत्वोक्तेः। परित्यक्तः त्यागोऽपि नापाततः बुद्धिपूर्व त्यक्तः। “त्यजेदेकं कुलस्याथै ग्रामस्याथै कुलं त्यजेत्" इति न्यायात् । यद्वा परित्यक्तः भार्यापुत्रादिभिस्सह त्यक्तः। नकारेण माता समुचीयते। न केवलं हितपरेण पित्रा, प्रियपरया मात्रा च परित्यक्तः, “सीता नारीजनस्यास्य योगक्षेमं विधास्यति" इति स्वरक्षकभूतायामपि सापराधत्वादिति । भावः । पित्रपेक्षया मातुर्वात्सल्यातिशयात्तामेव प्रथमं गच्छति स्म ततः पितरम् । पित्रा त्यागवचनान्मात्रा स्थान सिद्ध एवात चकारण सूचितम् ।।
सतं निपतितं भूमौ शरण्यः शरणागतम् । वधाहमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ३४ ॥ पितृभ्यां त्यागेऽपि बान्धवा न त्यजन्ति । किं पितरौ सर्वथा त्यक्ष्यत इति तैरपि त्यक्त इत्याह सुरैश्च । “कस्य बिभ्यति दे इरश्च जातरोपस्य संयुगे" इति रामनयने रक्ते तेऽपि बिभ्यति हि । एवं पूर्वसजातीयस्त्यक्तत्वेऽपि परिगृहीतपक्षिरूपसजातीयैः किं त्यक्त इत्यपेक्षायां नयेत्याह नकारेण। “पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्" इति पक्षिणामपि शरण्यत्वात्, स्वनायकगरुडस्वामित्वाच्च पक्षिभिरपि परित्यक्तः । समहर्षिभिः पित्रादिवन्यूनामरक्ष कत्वेऽपि आनृशंस्यप्रधाना महर्षयो रक्षिष्यन्तीति गतः, तैरपि प्रकामं दूरदर्शिभिः परित्यक्तः । आनृशंस्यविषयव्यवस्थाऽस्तीति तैस्त्यक्त इत्यर्थः ।। एतदङ्गीकारे वयमपि संसर्गदोषेण नश्येम । अस्माभिस्त्यागेऽनन्यगतिकत्वादाम एनं स्वीकरिष्यतीति तैस्त्यक्तः । महाभिः यो विष्णुं सततं वष्टि । तं विद्यादन्त्यरतसम्" इति विष्णुद्वेषेण चण्डालत्वात् "चण्डालः पक्षिणां काकः" इत्युक्तेश्च चण्डालो नास्मदाटमागच्छेदिति त्यक्ता एवं रक्षका न्तरादर्शनानष्टगजो घटमप्यन्वेषत इति न्यायेन स्वैरविवृतद्वारान्सर्वान गृहान गत इत्याह त्रीन् लोकान् संपरिक्रम्य । परिक्रम्य एतदेव नवकृत्वो मतः। संपरिकम्य गृहस्थैरविज्ञाततया कवाटमूलेषु लीनश्चेत्यर्थः । अपि कदाचित् कृपैषामुत्पद्यतेति मत्वा पुनः पुनर्गत इत्यर्थः । अमुनिकास्य कवाटबन्धनं । सर्वैः कृतमित्यर्थः। ततः किं कृतमित्यत्राह तमेव शरणं गतः । रक्षकत्वेन प्राप्तापेक्षया हिंसकत्वेन स्थितस्य मुखमेव शीतलमित्यवस्थितः । अतस्त। मेव शरणं गतः। “यदि वा रावणस्स्वयम्" इत्येवं स्थितोहि रामः । तमेव सर्वलोकशरण्यमेव । तमेव 'दोषो यद्यपि न त्यजेयम्' इति स्थितम् । शरणं गतः। निवासं गतः। न तूपायतया गतः। "निवासवृक्षः साधूनाम्" इत्युक्तेः ॥३३॥ स तमिति । सः रक्षणकस्वभावः। तं प्रातिकूल्येकानिरतम् । भूमौ निपतितं स्वर्गेऽपीति शेषः । पित्रेत्युपलक्षणं ब्रह्मान्तानाम् ॥ ३३ ॥ पर्यपालयत, प्राणरक्षणेनेति शेषः ॥ ३४ ॥ ३५ ॥
-
For Private And Personal