________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परिलीयते अन्तर्हितो भवति स्म । बलिभोजनः काकः ॥ १६ ॥ उत्कर्षन्त्यां च रशनां काकोत्सारणार्थमिति शेषः ॥१७॥ भक्षगृधेन भक्षलोलुपेन । दारिता विदारिता । त्वामुपागता पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थमङ्कादुत्थानमनुवावनं च कृतं देव्येत्यवगम्यते । रामाङ्के उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि । स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ १७ ॥ त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा । भक्षगृध्रेन काकेन दारिता त्वामुपागता ॥ १८ ॥ आसीनस्य च ते श्रान्ता पुनरुत्सङ्ग माविशम् । क्रुद्धयन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता ॥ १९ ॥ वाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती । लक्षिता Sहं त्वया नाथ वायसेन प्रकोपिता ॥ २० ॥ परिश्रमात् प्रसुप्ता च राघवाङ्केऽप्यहं चिरम् । पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः । स तत्र पुनरेवाथ वायसः समुपागमत् ॥ २१ ॥ ततः सुप्तप्रबुद्ध मां रामस्याङ्कात् समुत्थिताम् । वायसः सहसाऽऽगम्य विददार स्तनान्तरे ॥ २२ ॥ पुनः पुनरथोत्पत्य विददार स मां भृशम् । ततः समुक्षितो रामो मुक्तैः शोणितविन्दुभिः ॥२३॥ वायसेन ततस्तेन बलवत्क्लिश्यमानया । स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ॥ २४ ॥ केवलं स्थिताऽस्मि । तदा काको मां किंचिददारयत् । तं दृष्ट्वा तत्पलायनार्थं स्वयमायासं कुर्वन्तीं तदशक्त्या रुदन्तीं मां रामः परिहासपूर्वकं सान्त्वितवानित्यर्थः । अनेन स्वरक्षणे स्वयं प्रवृत्तश्वेदीश्वर उपेक्षते, स्वयमप्रवृत्तौ स रक्षतीति द्योतितम् ॥ १८-२३ ।। वायसेनेति । सः निखिल लोकविदितनिरतिशयसौन्दर्यप्रसिद्धः । मया बोधितः मयैवाहं हता, स्वापकालिक श्रीविशेषाननुभवात् । लोके कश्चित्सञ्चारदशायां सुन्दर इव भाति शयने दुर्लक्षणादिभिर्दोषा दृश्यन्ते न तथाऽयम् । श्रीमान् स्वापकालिक श्रीरुच्यते । सुखसुप्तः तत्त्वानुगुणैव हि सुतिरपि । परन्तपः शयनमेव सकलशत्रुनिवर्तनक्षममित्यर्थः । सुप्तः श्रीमान् । लोके स्थानगमनशयनादिदशायां रूपवानिव लक्ष्यते कश्चित् । संशयने प्रकाशितप्रच्छन्नदोषतया उत्कर्ष त्यामिति । पक्षिणा वसने स्त्रस्यमाने सति रशनामुत्कर्षन्त्याम् आकृष्यमाणायां मयि क्रुद्धायां सत्यां ततः तदा त्वया अहं दृष्टाऽस्मीति सम्बन्धः ॥ १७ ॥ मक्षगृधेन मक्षलोलुपेन । दारिता विदारिता । त्वामुपागता पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थम् अङ्कादुत्थानमनुधावनं च देव्या कृतमित्यवगम्यते ॥ १८-२१ ॥ त्वथि स्वपिति मयि जाग्रत्यामित्यर्थः । सुप्तमबुद्धी राघवा मुत्वा ततः प्रबुद्धामत एव राघवाङ्कादुत्थितां वायसः पुनरागम्य स्तनान्तरे
For Private And Personal