SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsun Gyanmandir दाइत्याह-ऐश्वर्य इति । कृतान्तः देवम् ॥ ३॥ विधिः देवम् । असंहार्यः अनिवार्यः ॥४-७॥ दशमो मासः दशममासान्तः॥ ८॥ निर्यातनं प्रत्य विधिनमसंहार्यःप्राणिनां प्लवगोत्तम । सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ४॥ शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति । प्लवमानः परिश्रान्तो हतनौः सागरे यथा ॥५॥ राक्षसानां वधं कृत्वा मूद यित्वा च रावणम् । लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥६॥ स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते । अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥७॥ वर्तते दशमो मासो दौ तु शेषौ प्लवङ्गम । रावणेन नृशंसेन समयो यः कृतो मम ॥८॥ विभीषणेन च भ्रात्रा मम निर्यातनं प्रति । अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥ ९॥ मम प्रतिप्रदानं हि रावणस्य न रोचते । रावणं मार्गते सङ्खये मृत्युः कालवशं गतम् ॥१०॥ ज्येष्ठा कन्याऽनला नाम विभीषणसुता कपे । तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ॥ ११॥ [अविन्ध्यो नाम मेधावी विद्वान राक्षसपुङ्गवः । द्युतिमाञ्छीलवान् वृद्धो रावणस्य सुसंमतः ॥ रामक्षयमनुप्राप्त रक्षसां प्रत्य चोदयत् । न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ॥] असंशयं हरि श्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः । अन्तरात्मा हि में शुद्धस्तास्मश्च बहवो गुणाः॥ १२॥ उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता । विक्रमश्च प्रभावश्च सन्ति वानर राघवे ॥ १३॥ चतुर्दश सहस्राणि राक्षसानां जघान यः। जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ १४॥ पणम् ॥९-१२ ॥ उत्साह इति । लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः । पौरुषं तादृक्कार्यकरणम् । सत्त्वं बलम् । आनृशंस्यम् अक्रूरत्वम् । कृतज्ञता उपकारज्ञत्वम् । विक्रमः शौर्यम् । प्रभावः शक्तिः ॥१३॥१४॥ असंहार्यः अनिवार्यः॥ ४-८॥ निर्यातनं प्रत्यर्पणम् । तत निर्यातनं प्रति ॥ ९-११ ॥ पतिः प्राप्स्यते । कुतः ! अन्तरात्मेति ॥ १२ ॥ गुणानेवाह-उत्साह इति । लोकोत्तरेषु कार्येषु स्थेयान प्रयत्नः उत्साहः । पौरुषं ताकार्यकरणम् । सत्त्वं बलम् । आनृशंस्यम् अक्रौर्यम् । विक्रमः शौर्यम् । प्रभावः शक्तिः ॥ १३॥ तस्य For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy