SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir शप इति पूर्वेणान्वयः ॥ ३९॥ क्षिप्रमिति । नाकपृष्ठो नाम इन्द्रस्यासाधारणस्वर्गस्थानविशेषः॥१०॥ न मांसमिति । “दृङ्मनःसङ्गसङ्कल्पजागराः कृशताऽरतिः। हृीत्यागोन्मादमूच्छन्तिा इत्यनङ्गदशा दश॥” इति दशावस्थास्वरतिरनेनोच्यते। मांसाद्यभोजनम् अरत्या ततः पूर्व तद्भोजनोक्तेः । वन्यं दने भवं कन्दमूलादिकम् । सुविहितं वानप्रस्थयोग्यत्वेन विहितम् । भक्तम् अन्नम् । पञ्चमं प्रातःसङ्गवमध्याह्नापरासायंरूपेषु कालेषु पञ्चमकालिक क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ । शतक्रतुमिवासीनं नाकप्टष्ठस्य मूर्धनि॥४०॥न मांसं राघवो भुङ्क्ते न चापि मधु सेवते। वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥४१॥ नैव दंशान्न मशकान न कीटान्न सरी मृपान् । राघवोऽपनयेगात्रात् त्वद्गतेनान्तरात्मना॥४२॥ त्यं ध्यानपरो रामो नित्यं शोकपरायणः । नान्य चिन्तयते किञ्चित् स तु कामवशं गतः॥४३॥ अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः । सीतेति मधुरां वाणी व्याहरन् प्रतिबुद्धयते ॥४४॥ दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत् सुमनोहरम् । बहुशो हा प्रियेत्येवं । श्वसंस्त्वामभिभाषते ॥४५॥ शरीरधारणमात्रोपयुक्तं भुङ्क्त इत्यर्थः ॥११॥ अथ मनःसङ्गावस्थामाह-नैवेति । दंशास्तु वनमाक्षिकाः तान् । मशकांश्चेत्यनेन देशमशकापरिज्ञान । KIमुक्तम् । कीटसरीसृपोक्त्या उपरिशरीरं चरतामनिवृत्तिरुच्यते । तत्र हेतुः त्वद्गतेनान्तरात्मना । परकायप्रविष्टस्य कथं त्यक्तशरीरविकृतिज्ञानम् ? तत्र स्थितः खलु तत्रत्यपीडां ज्ञास्यतीति भावः॥४२॥४३॥ तथाऽस्य जागरावस्थामाह-अनिद्र इति । अनिद्रः सततं रामःनिद्रया सर्वदा कालक्षेपाहोऽपि सन्ततमनिद्रोऽभूत् । सुप्तोऽपि चेत्यनेन परगतार्थानुसन्धानाभाव उच्यते । नरोत्तमः अभिमतविश्लेषे तथाऽवस्थानमेव हि पुरुषोत्तमस्य लक्षणमिति । नागराजस्य ऐरावतस्य । नाकपृष्ठस्येति पाठे सर्वोपरीत्यर्थः ॥४०॥ वन्यं मूलफलादिकम् । सुविहितं परिग्राह्यत्वेन आरण्यकशास्त्रचोदितम । भक्तम् अन्नम् । पक्षम पञ्चानामन्नानां पूरणम् । वानप्रस्था हि मूलफलादिकं पञ्चधा कृत्वा देवपित्रतिथिभूतेभ्यस्तद्भागान दत्त्वा पञ्चमं स्वयं भुञ्जते । पञ्चमकालसिद्धं पक्षममिति वा । प्रातस्मङ्गवमध्याहापरावसापाढेषु पंचसु कालेषु चतुरो भोजनकालानतीत्य पश्चमे काले भुत इत्यर्थः । यद्वा "पोडशारण्यवासिनः" इत्युक्तवानप्रस्थभोक्यस्य पञ्चमाशं भुते । अनेन रामस्यात्यल्पाहारतोक्ता ॥ ४१-४३ ॥ अनिद्र एव कथञ्चित्सप्तोऽपीति सम्बन्धः॥ ४४-४६ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy