SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir को ॥१०४॥ स०३६ सुखानामिति । अनुचित इति दीर्घ आर्षः। उत्तरम् उत्कृष्टम् ॥२१॥ रामानु०-सुखानामिति । अनुचित एवानौचितः । "प्रज्ञादिभ्पश्च" इति स्वार्थे अण्प्रत्ययः। उत्तर दुःखम उत्कृष्ट दुःखम् ॥२१॥२२॥ मन्निमित्तेन मया हेतुना । अन्यमनाः कार्यान्तरासक्तः॥२३॥ कच्चिदक्षौहिणीमिति । ध्वजिनी सेनाम् ॥२४-२७॥ सुखानामुचितो नित्यमसुखानामनूचितः । दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ २१ ॥ कौसल्याया स्तथा कच्चित् सुमित्रायास्तथैव च। अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च ॥२२॥ मन्निमित्तेन मानाहः कच्चिच्छोकेन राघवः । कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ २३॥ कच्चिदक्षौहिणी भीमा भरतो भ्रातृ वत्सलः। ध्वजिनी मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥२४॥ वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति । मत्कृते हरिभिवीरैर्वृतो दन्तनखायुधैः॥२५॥ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः । अस्त्रविच्छरजालेन राक्षसान विधमिष्यति॥२६॥रौद्रेण कच्चिदत्रेण ज्वलता निहतं रणे। द्रक्ष्याम्यल्पेन कालेन रावणं ससुहजनम्॥२७॥ कच्चिन्न तद्धेमसमानवर्ण तस्याननं पद्मसमानगन्धि । मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ २८ ॥ धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् । नासीद्यथा यस्य न भीन शोकः कच्चिच्च धैर्य हृदये करोति ॥ २९॥ हेमशब्देन तद्वर्ण उच्यते। अभेदेन हेमवत्स्पृहणीयमित्यर्थः । मया विनेति जलक्षयस्थानम् । शोकदीनमित्यातपस्थानम् ॥ २८ ॥ धर्मापदेशाद्धों देशार्थम्, धर्ममुद्दिश्येत्यर्थः । यद्वा धर्मव्याजाद्धेतोः । राज्यत्यागाद्यथा नासीत् । अरण्यसञ्चारादीनासीत् । मत्पादसञ्चाराच्छोको नासीत् । सः सुखानामिति । अनुचित एव अनौचितः । उत्तरं दुःखम् उत्कृष्ट दुःखम् ॥ २१ ॥ २२ ॥ शोकेन राघव इति । परितप्यत इति शेषः ॥ २३-२७ ॥ हेमसमानवी हेमवर्णवत स्पृहणीयवर्णमित्यर्थः ॥ २८ ॥ धर्मापदेशात धर्मोद्देशेन, धर्ममुद्दिश्येति यावत् । राज्यत्यागात् व्यथा मनश्चलनम्, अरण्यसबाराद्रीतिः, सीतापाद सञ्चाराच्छोकः यस्य नास्ति सः हृदये धैर्य करोति कचिदिति सम्बन्धः ।। २९ ॥ ॥१०॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy