________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
Mail
टी.सु.का
३६
इत्याहर्षिः॥४॥५॥ प्रियं कुत्ता संनानं कृत्वा॥६॥ विकान्त इत्यादिपत्रयेण तद्युत्क्रमेण ज्ञानशक्तिबलान्युच्यन्ते । इदं राक्षसपदमिति प्रज्ञोक्ता १३॥ वयकेनेति सामर्थ्यम् । प्रधर्पितमिति विक्रमः ॥ ७ ॥८॥ प्राकृतं क्षुद्रम् । संभ्रमः व्यग्रता ॥९॥ अहंस इति । यद्यपीति निपातसमुदायो यस्मा
ततः सा हीमती बाला भर्तृसन्देशहर्षिता। परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥६॥ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ७॥ शतयोजनविस्तीर्णः सागरो मकरालयः । विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥ ८॥ नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ । यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ॥९॥ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् । यद्यपि प्रेषितस्तेन रामेण विदितात्मना ॥ १०॥ प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् । पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥११॥ दिष्टया च कुशली रामो धर्मात्मा सत्यसरः । लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ १२ ॥ कुशली यदि काकुत्स्थः
किन्नु सागरमेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः॥ १३॥ Mदित्यर्थे । अव्ययानामनेकार्थत्वात् ॥ १०-१२ ॥ अथ प्रणयरोषेण दूतसन्निधौ रामं गर्हते-कुशलीति । काकुत्स्थः परपरिभवासहकुले जातः ।
अनेन परपरिभव एव परिहरणीयः न स्वीय इति नियमोऽस्ति किम्। किंनु सागरमेखलां महीं दहति । अत्र काकुत्स्थः दहति किंनु न दहतीत्यर्थः । सागरमेखलामिति विशेषणेन द्रवद्रव्यस्यैकेन कठिनद्रव्यस्य चैकेन वाणेन भवितव्यं किम् । सागरं सलिलमेव तैलं कृत्वा महीं दग्धुं समर्थों न पाकिमित्यर्थः । यदा स्वपत्नी वा सुरक्षितपरिधानां करोतीति भावः । अनादिकृतमर्यादा मही कथं दग्धुं शक्येत्यत्राह युगान्तेति । महीमर्यादा तत इति । प्रियं कृत्वा आदरं कृत्वेत्यर्थः ॥ ६॥ विक्रान्तः शूरः । समर्थः देशकालोचितकृत्यचतुरः । प्राज्ञः सर्वशास्त्रतत्वज्ञः । पदं स्थानम् ॥ ॥८॥ सन्त्रासः, समुद्रादिति शेषः ॥ ९ ॥ यद्यपीत्यवधारणे । मया समभिभाषितुम् अर्हसे यद्यपि, अर्हस्येवेत्यर्थः । कुतः ? विदितात्मना रामेण मेषित इति । सम्बन्धः। यद्वा अप्यवधारणे । यदि यस्मात् विदितात्मना रामेण प्रेषितः तस्मात् मया समभिभाषितुमर्हस्येवेति सम्बन्धः ॥ १-१४॥ स-बीमती पत्यौ यद्रत्यौनत्यं कपिरपि ममापश्यदिति लज्जावती । प्रियं कृत्वा रावणादिविकल्पं विध्य प्रेमास्पदमेव कृत्वा मत्वा वा ॥१॥
॥१०॥
For Private And Personal