________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्योतयितुं स्वमाहात्म्यमाह-हृत इति । ततः असुरवधोपकारात् ॥ ८९ ॥ इति श्रीगो० श्रीरामा० शृङ्गार • सुन्दरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः॥ ३५ ॥ भूय इत्यादि ॥ १ ॥ इत्थं सन्देशकथनादिना देवीं विश्वास्याभिज्ञानाङ्गुलीयकदानेन दृढं विश्वासयति-वानरोऽहमित्यादिना ॥ २ ॥ ३ ॥ गृहीत्वेति । गृहीत्वा देशान्तरादागतं बन्धुं दृट्देव स्वयं गृहीतवती । प्रेक्षमाणा । वर्तमानार्थेन शानचा दत्तदृर्टि न विचालितवतीत्युच्यते। सा पूर्व रावणत्वेन शङ्कित वती । भर्तुः करविभूषणं पाणिग्रहणकाले हस्तस्पृष्टमाभरणम् । करविभूषणमित्यनेन भोगातिशयात् प्रणयकोपे प्रहृते परस्परमालोकन भाषणादि
भूय एव महातेजा हनुमान मारुतात्मजः । अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ १ ॥ वानरोऽहं महाभागे दूतो रामस्य धीमतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ २ ॥ प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना । समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ ३ ॥ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् । भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत् ॥ ४ ॥ चारु तद्वदनं तस्यास्ताम्रशुक्कायतेक्षणम् । अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ ५ ॥ विरहदशायां काङ्क्षिते भाषणे मानातिशयेन मौने कृते रामोऽङ्गुलीयकं भूमौ च्यावयति स्म । तदा व्याजेन च्युतमङ्गुलीयकमिति सीतयाऽभिहिते प्रणयको पशैथिल्यात् पर रसंश्लेषो भूयोऽप्यभूत् । एवं घटकभूतं करविभूषणं भर्तारमिव संप्राप्ता अङ्गुलीयकदर्शनात्तस्य कान्तस्य करं स्मृतवती, तत्स्मृत्या बाहुं तत्स्मरणेन तद्विग्रहम् । एवं भावनाप्रकर्षेण तं पुरःस्थितमिव मत्वा तमालिङ्गितवती । जननीबुद्धया मुनिस्सम्प्राप्तेवेत्याह, जननी कृतभोगस्यावर्ण्यत्वात् । जानकी शोकहर्पाभ्यां केष्टुमन कुले जाता । मुदिताऽभवत् इयमिदानीं मुदिता उदर्के किं भविष्यतीति न जान ज्ञापयितुं स्वमाहात्म्यमाह हनेऽसुर इति ॥८९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ ३५ ॥ अथ दृढतर विश्वासाय रामाङ्गुलीयकं दातुमाह-भूय इति । प्रत्ययः विश्वासः ॥ १ ॥ सन्देशकथनादिना देवीं विश्वास्य अभिज्ञानाङ्गुलीयकप्रदानेनापि दृढं विश्वासयति-वानरोऽहमित्यादिना ॥ २५ ॥
स०-क्षीणदुःखफला दुःखं तम आदिस्थं फलं येषां ते दुःखफलाः राक्षसाः । क्षीणाः दुःखफला यया निमित्तेन सा तथा दुःखरूपं यत् फलं रक्षीणं यस्यां सा वा । एष्यन्निश्चयेनेदं वचनम् ॥ १ ॥
For Private And Personal