________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
I
TVबुद्धयस्व पवनात्मजम्' इति पवनात्मजत्वमुक्तम्, तत्कथं वानरस्येत्यपेक्षायामाह-माल्यवानिति । गच्छति अगच्छत् ॥ ८॥ सः गोकर्ण गतःटी ..का. ॥१०॥ देवर्षिभिः तत्रत्यैः दिष्टः नियुक्तः। शम्बसादनं तीर्थोपद्रवकारिणमसुरं शम्बसादनाख्यम् । उद्धरत् उदहरत् । देवर्षिप्रार्थनया अवधीदित्यर्थः ॥ ८ ॥ स.
माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः। ततो गच्छति गोकर्ण पर्वतं केसरी हरिः ॥ ८० ॥ स च देवर्षिभि र्दिष्टः पिता मम महाकपिः । तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥ ८१॥ तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि । हनुमानिति विख्यातो लोके स्वेनैव कर्मणा।।८२॥ विश्वासाथै तु वैदेहि भर्तुरुक्ता मया गुणाः। अचिराद राघवो देवि त्वामितो नयिताऽनघे ॥ ८३ ॥ एवं विश्वासिता सीता हेतुभिः शोककर्शिता । उपपन्त्रैरभिज्ञानैर्दूतं तमवगच्छति ॥ ८४ ॥ अतुलं च गता हर्षे प्रहर्षेण च जानकी । नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ॥८५॥ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥८६॥ हनुमन्तं कपि व्यक्तं मन्यते नान्यथेति सा । अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ ८७ ॥ एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि । किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ ८८॥ हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षि चोदनात् । ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः॥ ८९ ॥ इत्यार्षे श्रीरामायणे वाल्मी
कीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५॥ हरिणः हरेः केसरिणः क्षेत्रे पन्याम् अञ्जनाया जातः पितुर्देशान्तरगमनकाले जातः । अनेनान्यक्षेत्रे कथमन्येनोत्पादनमिति शङ्का पराकृता ॥ ८२॥ नयिता नेता॥ ८३॥ अवगच्छति अवागच्छत् ॥८४-८८॥ रामानु०-हनुमन्तामिति । मन्यते अमन्यत ॥ ७॥ देवीनियक्तार्थकरणे सस्य शक्तिरस्तीति । 'बुद्धचस्व पवनात्मजम्' इति पवनात्मजत्वं तब प्रतिपादितम्, वानरस्य तव पानात्मजत्वं कथमित्याकासायामाह-माल्यवानित्यादिना । गच्छति अग ॥१०॥ च्छत् ॥ ८० ।। दिष्टः आदिष्टः नियुक्तः। शम्बसाइन इति कश्चनासुरः । उद्धरत उदह तु, अवधीदित्यर्थः ॥ ८१ ॥ हरिणः हरेः। नकारान्तन्वमार्यम्, केसरिण। इत्यर्थः ॥ ८२ ॥ नपिता नेता ॥ ८३ ॥ अवगच्छति अवागच्छत् ॥८४-८६ ॥ मन्यते अमन्यत ॥ ७ ॥८॥ देवीनियुक्तार्थकरणे स्वस्थ शक्तिरस्तीति MI स-रातः मरिपतस्तद्धननार्थ गमनानन्तरम् । वायुप्रभवोऽस्मि तदवकाशे वायुना जानोऽस्मि ॥ ९॥
For Private And Personal