________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kailashsagarsun Gyarmandir
भयमित्येवरूपात् । तेषां कार्यहेतोः॥ ६२-६७ ॥ हृष्टाः उत्साहवन्तः । तुष्टा आनन्दवन्तः ॥ ६८ ॥ वेलोपान्तं वेला सिन्धुपूरः तस्योपान्तम् । “वेला तस्य तद्वचनं श्रुत्वा सम्पातेःप्रीतिवर्धनम् । अङ्गन्दप्रमुखास्तूर्णं ततः संप्रस्थिता वयम्॥६७॥विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् । त्वदर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥ ६८॥ अङ्गदप्रमुखाः सर्वे वेलोपान्तमुप स्थिताः। चिन्ता जग्मुः पुनीतास्त्वदर्शनसमुत्सुकाः॥ ६९ ॥ तथाऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः। व्यव धूय भयं तीवं योजनानां शतं प्लुतः ॥ ७० ॥ लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला । रावणश्च भया दृष्टस्त्वं च शोकपरिप्लुता ॥७१ ॥ एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते । अभिभाषस्व मां देवि दूतो दाशरथे रहम् ॥ ७२ ॥ तं मां रामकृतोद्योगं त्वनिमित्तमिहागतम् । सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ॥ ७३ ॥ कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः । गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ ७४ ॥ तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः । अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ॥ ७५॥ मयेयमसहायेन चरता कामरूपिणा । दक्षिणा दिगनुक्रान्ता वन्मार्गविचयैषिणा ॥ ७६ ॥ दिष्टयाऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् । अपनेष्यामि सन्तापं तवाभिगमशंसनात् ॥७७॥ दिष्टया हि ममन व्यर्थ देवि सागरलङ्घनम् । प्राप्स्याम्यहमिदं दिष्टया त्वद्द
र्शनकृतं यशः ॥७८॥ राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते । समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥७९॥ Sम्बुधेस्तीवृद्धयोः कालमर्यादयोरपि" इति दर्पणः॥६९-७२॥ रामकृतोद्योगं रामकृतोत्साहम् ॥७३॥ गुरोः ज्येष्ठस्य आराधने शुश्रूषणे रतः लक्ष्मण श्च कुशली ॥ ७४ ॥ ७५॥ मयेयमिति । विचयैषिणा अन्वेषणेच्छुना ।। ७६ ॥ दिष्टयेति । तवाभिगमशंसनात् त्वत्समीपप्राप्तिकथनात् ॥ ७७-७९॥ मासादूर्ध्वमनागताना वध एवेति मुग्रीववचनात् । मुमूर्षता सताम् ॥ ६२-७६ ॥ दिष्ट्याऽहमिति । तवाभिगमशंसनात् तव समीपप्राप्तिशंसनात् । तवाधिगम शंसनादिति पाठे तव दर्शनशंसनात् ॥ ७७-७९ ॥
६११
For Private And Personal