________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. -४१०१॥
www.kobatirth.org.
Acharya Shri Kailashsagarsuri Gyanmandir
तयोरैक्यं मैत्री जातेत्यर्थः । यद्वा एवं समजायत अहमप्येवं दृष्टवान्, न योग्यतामवगच्छामीत्यर्थः ॥ ५२ - ५४ ॥ सुग्रीववचनातुराः सुग्रीवाज्ञाभीताः । सुग्रीववचनानुगा इति च पाठः ॥ ५५ ॥ अङ्गन्द इति । त्रिभागवलसंवृतः तृतीयांशेन बलेन सैन्येन संवृत इत्यर्थः । वृत्तिविषये पूरणार्थत्वं संख्या ततस्ते मार्गमाणा वै सुग्रीववचनातुराः । चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५५ ॥ अङ्गदो नाम लक्ष्मीवान् वालिनुर्महाबलः । प्रस्थितः कपिशार्दूलस्त्रिभाग बल संवृतः ॥ ५६ ॥ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे । भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५७ ॥ ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च । भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५८ ॥ विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च । अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ॥ ५९ ॥ दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् । भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ॥ ६० ॥ तव नाशं च वैदेहि वालिनश्च वधं तथा । प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ ६१ ॥ तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् । कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ॥ ६२ ॥ गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् । श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ ६३॥ यवीयान् केन म भ्राता हतः क्व च निपातितः । एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ ६४ ॥ अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् । रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ ६५ ॥ जटायुषो वधं श्रुत्वा दुःखितः सोऽरुणात्मजः । त्वां शशंस वरारोहे वसन्तीं रावणालये ॥ ६६ ॥ शब्दस्येष्यते ॥ ५६ ॥ तेषामिति । विप्रनष्टानां बिले अदर्शनं गतानाम् ॥ ५७ ॥ ते वयमिति । कालस्य सुग्रीवकल्पितमासस्य । कपिराजस्य सुग्री वात् ॥ ५८ ॥ ५९ ॥ दृट्वेत्यादिश्लोकद्वयमेकं वाक्यम् । परिदेवन कर्माह तवेति ॥ ६० ॥ ६१ ॥ तेषामिति । स्वामिसन्देशात् मासादूर्ध्वमनागतानां तत इति । सुग्रीववचनातुराः सुग्रीवाज्ञाभीता इत्यर्थः ॥ ५५ ॥ ५६ ॥ विप्रनष्टानां बिलनिर्गमनमार्गाद्विभ्रष्टानामित्यर्थः ॥ ५७ ॥ कालस्य सुत्रविकल्पितमासरूप कालस्य । कपिराजस्य कपिराजात् ॥ ५८ ॥ ५९ ॥ दृष्ट्वेत्यादिसार्धमेकं वाक्यम् । अत्र द्वितीयान्तान् दृष्ट्वा पर्यदेवयदिति सम्बन्धः ॥ ६० ॥ ६१ ॥ स्वामिसन्देशात् स०-महद्वधं महतो जटायुषो वधः महृद्वधः तम् । परोपकारे प्राणत्यागान्महवन् ॥ ६५॥ खामाह सवरारोहे इति । वरारोहाभ्यां सहिता सबरारोहा तस्यास्सम्बुद्धिः । अतो न स इत्यस्याधिक्यम् ॥ १६ ॥
For Private And Personal
टी. सुं.कां.
॥२०१६