SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भ्राता च तस्येति । द्वैमात्रः सपत्नीपुत्रः ॥ २२ ॥ रामानु० - भ्राता च तस्येति । द्वैमात्रः द्वयोर्मात्रोरपत्यं पुमान् द्वैमात्रः । " मातुरुत्सङ्ख्यासंभद्रपूर्वायाः” इति अणू प्रत्ययः । उकाराभाव आर्षः । सुमित्रापत्यस्य लक्ष्मणस्य द्वैमातुरवं जन्मप्रभृति रामवत् कौसल्यया संवर्धितत्वात् ॥ २२ ॥ २३ ॥ मृगपतिं सुग्रीवम् । पूर्वजेन वालिना भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः । अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ २२ ॥ तावुभौ नरशार्दूलो त्वद्दर्शनसमुत्सुक । विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ॥ २३ ॥ त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धरा । ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ २४ ॥ ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले । भ्रातुर्भयार्त मासीनं सुग्रीवं प्रियदर्शनम् ॥ २५ ॥ वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् । परिचर्यास्महे राज्यात् पूर्वजेनाव रोपितम् ॥ २६ ॥ ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ । ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ २७ ॥ स तौ वा नरव्यात्रौ धन्विनौ वानरर्षभः । अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ २८ ॥ ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः । तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ २९॥ तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू । रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ॥ ३० ॥ तौ परिज्ञाततत्त्वार्थो मया प्रीतिसमन्वितौ । पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ ३१ ॥ निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने । तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ॥३२॥ अवरोपितम्, राज्यादिति शेषः ॥ २४- २६ ॥ रामानु० - वयन्त्विति । परिचर्य परिचर्यां कृत्वा । आस्महे तिष्ठाम इत्यर्थः ॥ २६ ॥ तत इति । पाणिनाविति आर्जनम्, अनुग्रहः फलदानम् ॥ २१ ॥ द्वैमात्रः द्वयोर्मात्रीरपत्यं पुमान् द्वैमात्रः ॥ २२ ॥ अस्माभिः सुग्रीवमन्त्रिभिरित्यर्थः ॥ २३ ॥ मृगपतिं सुग्रीवम् । अवरोपितम् राजासनादिति शेषः ॥ २४ ॥ २५ ॥ वयमिति । परिचर्यास्महे परिचर्या कृत्वा आस्महे, तिष्ठाम इत्यर्थः ॥ २६ ॥ पाणिनावित्यत्र इन्नन्तत्वमार्षम् ॥ २७-४० ॥ स०-प्रतुः प्रवरपाणिनी पणो व्यवहार एव पाणः । धनुः प्रवराभ्यां पाणोऽनयोरस्तीति तथा । धनुःप्रवरपाणिनां नौ नायकावित्यर्थं इति वा । " नेता नव समाख्यातः " इति नानार्थपदमञ्जर्याम् नान्तो वाऽयं शब्दः । २७ ।। For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy