________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
1
।
बा.रा.भ.
रा
नयनशोभाया अनाधिः क इत्यक्षायामाह सर्वसत्त्वमोहर इति । तिग्जातीयत्वेन शाखाकमणपरस्य वातालवस्यान महासेन सर्वजनमनोहर टी..कर, रूपदाक्षिण्यसंपन्नः प्रसूतः स्वाभाविकानवाधिकदिव्यदेहगुणगणः। जनकात्मजे त्वमेव तत्महशीति वक्तुं शक्या नान्येत्यर्थः । यद्दा रमताति रमन्ते योगिन इति चा .... रामः । रामत्यमेवाह कमलपत्राक्ष इति । अथवा रामस्सौन्दर्यप्रवाहभूतः। कमलामाक्षः प्रवाहे आवर्तापमानश्रीनयनः । तेन हृदयाकपकत्वं व्यजितम् । तर सकलजन्तुसाधारणमित्याह सर्वमत्त्वमनोहर इति । तत्र वानरजातीयपच्चित्ताकर्षणमेव प्रमाणमिति ध्वन्यते । स्वरूपवित्रहगुणैः मकलजन्तुमनोहरत्वं जन्मासिद्धमित्याह - रूपदाक्षिण्यसम्पन्नः प्रसूत इति। तर्हि एवंविधः पुमान् विद्यते फिमिति चेत् ? नेत्याह जनकात्मजे इति। तुल्पशीलेत्यादिना भवत्येव प्रसिद्धान पुमान् कश्चिदिति भावः ॥८॥
तेजसाऽऽदित्यसङ्काशः क्षमया पृथिवीप्समः। बृहस्पतिसमो बुद्रया यशसा वासवोपमः ॥९॥ रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता । रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः॥ १०॥ रामो भामिनि लोकस्य चातुर्वर्ण्यस्य । रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ ११॥ अचिष्मानचितोऽत्यर्थ ब्रह्मचर्यव्रते स्थितः । साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२ ॥ राजविद्याविनीतश्च ब्राहाणानामुपासिता । श्रुतवान् शील । सम्पन्नो विनीतश्च परन्तपः॥ १३॥ यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः। धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः
॥ १४॥ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः । गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥ १५॥ सङ्घद्देणोक्तान गुणान्विवृणोति-तेजसेत्यादिना ॥९-११॥ ब्रह्मचर्यव्रते स्थितः गृहस्थस्यास्य ब्रह्मचर्य नाम ऋतोरन्यत्र स्त्रीसङ्गमत्यागः । तदाह मनुः-“पोडशनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाद्याश्वतम्रश्च विवर्जयेत् ॥" प्रचारज्ञः प्रयोगज्ञः। ऐहिकामुष्मिकानां कर्मणां प्रचारं गति हेतुफलभावव्यवस्था तत्त्वतो जानातीत्यर्थ इत्यप्याहुः ॥ १२॥ राजविद्याविनीतश्च । चतस्रो राजविद्याः-"आन्वीक्षकी त्रयी वातो दण्ड नीतिश्च शाश्वती। एता विद्याश्चतस्तु लोकसंस्थितिहेतवः॥” इत्युक्ताः, तासु विनीतः शिक्षितः श्रुतवान् अवधृतवान् । शीलसम्पन्नः सदाचारसम्पन्नः10 पूर्व यज्ञादिकर्मानुष्ठातृत्वमुक्तमिति न पुनरुक्तिः ॥१३॥ वेदेषु यजुर्व्यतिरिक्तवेदेषु । अनेन स्वस्य यजुर्वेदत्वं सूचितम् ॥१४॥ एवमात्मगुणानभिधाय सङ्कद्देणोक्तान गुणान् विवृणोति-तेजसेत्यादिना ॥ ९-११ ॥ अचिष्मानिति । अर्चितः, सद्धिरिति शेषः । ब्रह्मचर्यव्रते स्थितः, तत्र प्रसिद्ध इत्यर्थः । प्रचार योगज्ञः ॥१२॥१३॥यजर्वेदविनीतः तस्मिन रत इत्यर्थः ॥ १४ ॥ पर्वमात्मगणानभिधाय इदानीं विग्रहगुणानाह-विपुलास इत्यादिना ॥ १५॥
For Private And Personal