________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
वा.रा.भू.
टी.सु.कास०१
नागा इति । रक्षांसि दिक्पालकरक्षस्सम्बन्धीनि ॥ ८७॥ तस्मिन्निति। मानार्थी बहुमानार्थी । स्वयं सागरत्वादिति भावः॥ ८८ ॥ साहाय्यमिति सर्ववाच्यः सर्वप्रकारेण निन्यः । विवक्षतां वक्तुमिच्छताम् ॥ ८९-९१ ॥ रामानु०-साहाय्यमिति । विवक्षता वक्तुमिच्छताम्, पागिन्द्रियवतामित्यर्थः ।
नागाश्चतुष्टवर्यक्षा रक्षांसि विबुधाः खगाः। प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ ८७॥ तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति। इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥८८॥ साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः । करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥८९॥ अहमिक्ष्वाकुनाथेन सगरेण विवर्द्धितः। इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥९॥ तथा मया विधातव्यं विश्रमेत यथा कपिः । शेषं च मयि विश्रान्तस्सुखेनातिपतिष्यति ॥ ९१॥ इति कृत्वा मतिं साध्वी समुद्रश्छन्नमम्भसि । हिरण्यनाभ मैनाकमुवाच गिरिसत्तमम् ॥ ९२ ॥ त्वमिहा सुरसङ्घानां पातालतलवासिनाम् । देवराज्ञा गिरिश्रेष्ठ परिधः सन्निवेशितः॥९३ ॥ त्वमेषां जातवीर्याणां पुनरेवो त्पतिष्यताम् । पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥९४॥ तिर्यगूलमधश्चैव शक्तिस्ते शैल वदितुम् । ।
तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ॥ ९५ ॥ सर्वबाच्यो भविष्यामि सर्वनिन्दावाग्विषयो भविष्पामीत्यर्थः ॥ ८९ ॥ अहमिति । नावसीदितमहतीति पाठः ॥ ९० ॥ मार्गशेषम् ॥११॥ इतीति । हिरण्यनाभं हिरण्य शृङ्गम् नाभिशब्दो ह्यध्यक्षवाची, शृङ्गंच पर्वतस्याध्यक्षमेव । “नाभिरध्यक्षकस्तूर्योः" इति दर्पणः॥ ९२ ॥ त्वमिति । परिषः अर्गलम् । “परिषो मुदरे sगले" इति दर्पणः॥ ९३ ॥ परिषत्वमेवाह-त्वमेषामिति ॥ ९४॥ तिर्यगिति । शक्तिः अस्तीति शेषः ॥ ९५ ॥ ९६ ॥ सचरन्त्यस्मिन्नित्यापातो मार्गः॥ ८१-८७ ॥ तस्मिन्निति । सागरः सगरसम्बन्धी अत एव इक्ष्वाकुकुलमानार्थी पूजार्थी ॥८८ ॥ चिन्ताप्रकारमेवाह-साहाय्य मिति । विवक्षता वनुमिच्छताम, वागिन्द्रियवतामित्यर्थः । सर्ववाच्या सर्वनिन्दावाग्विषयो भविष्यामीत्यर्थः ॥ ८९ ॥९० ॥ शेष मार्गशेषम् ॥११॥ हिरण्यनाभ हिरण्यप्रधानम्, हिरण्मयमित्यर्थः । "नाभिः प्रधाने कस्तूर्याम्" इति विश्वः ॥ ९२ ॥ परिषस्सनिवेशितः आयुधविशेषत्वेन सत्रिवेशितः, अनेन पक्षच्छेदभयात् समुद्रप्रवेशानन्तरं पातालस्थराक्षसनिरोधार्थ देवराजेन मैनाकः स्थापित इत्यवगम्यते ॥ ९॥९४ ॥ तिर्यगिति । वदितं, शकिरस्तीति शेषः ॥ ९५॥
For Private And Personal