________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
झपाः मकराः । विवृताः जलविभेदेन प्रकाशिताः ॥ ७५ ॥ ७६ ॥ दशयोजनविस्तीर्णति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः। स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुद्धयेत । नहि बिम्वादधिकपरिमाणत्वं प्रतिबिम्बस्य संभवतीति न शङ्कनीयम्, छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः। प्रातरेव हि समुद्रतरणमुक्तम्, तदा तस्य छाया समुद्रे तथाप्रमाणा दृश्यतेव ॥ ७७ ॥ श्वेताभ्रेति । अभ्रधनः अभ्र
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता।छाया वानरसिंहस्य जले चारुतराऽभवत् ॥७७ ॥ श्वेताभ्रधनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥७८॥ शुशुभे स महातेजामहाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवानिव पर्वतः॥७९॥ येनासौ याति बलवान् वेगेन कपिकुञ्जरः । तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥८०॥ आपाते पक्षिसङ्घानां पक्षिराज इव वजन् । हनुमान मेघजालानि प्रकर्षन मारुतो यथा ॥८१ ॥ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८२ ॥ प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८३॥ प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा । ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ८४ ॥ तताप न हितं मूर्यः प्लवन्तं वानरो त्तमम् । सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥८५॥ ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा । जगुश्च
देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ ८६ ॥ मृतिः॥७८॥ रामानु०-चेतेति । चेताप्रपनराजीव । अत्र श्वेतशब्देन स्वच्छतोच्यते, घनशब्देन सान्द्रता । "धनं निरन्तरं सान्द्रम्" इत्यमरः । निर्मलानसान्द्रपंक्तिरिवेत्यर्थः।।७८॥७९॥ येनोति । द्रोणी कटाहः ॥८० ॥ आपात इति । आपाते मार्गे ॥ ८१-८४ ॥ ततापेति । रामकार्य सीतान्वेषणम् तदेवार्थः प्रयोजनं तस्य सिद्धये लाभाय, तद्धतीतहनुमच्छमनिवर्तनायेत्यर्थः॥ ८॥रामानु-ततापेति । सिवेवे इत्यनेन पुत्रत्वेपि रामकार्यप्रवृत्तत्वात् पूज्यतैव द्योत्पते ॥ ४५ ॥८६॥ तेति । श्वेताम्रधनराजीव, अब श्वेतशब्देन स्वच्छतोच्यते, घनशब्देन सान्द्रता, तथाच निर्मलाभ्रसान्द्रपङ्किरित्यर्थः ॥ ७८-८० ॥ आपात इति । आपतन्ति ।
For Private And Personal