________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भू.
॥
५
॥
भागेन गच्छति । अयं च उपरिगतशरीरेणाघोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ॥ ६८॥ यं यमिति । सोन्माद इवटो ..कां. समुद्धर्षे इव, समुद्धतजल इत्यर्थः ॥ ६९ ॥ रामानु०-यमिति । समुद्रः सोन्माद इव अपस्मारीव लक्ष्यते, भ्रमणफेनजलोद्गमनकोशनादिमत्त्वादियभुपमा ।। ६९ ॥ सागरस्यति ।
यं यं देशं समुद्रस्य जगाम स महाकपिः । स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥६९॥ सागरस्योर्मिज़ालाना मुरसा शैलवर्मणाम् । अभिनस्तु महावेगः पुप्लुवे स महाकपिः ॥ ७० ॥ कपिवातश्च बलवान् मेघवातश्च निःसृतः ।सागरं भीमनिर्घोष कम्पयामासतुर्भृशम् ॥७१॥ विकर्षत्रूमिजालानि बृहन्ति लवणाम्भसि । पुप्लुवे कपि शार्दूलो विकिरनिव रोदसी ॥ ७२ ॥ मेरुमन्दरसङ्काशानुद्धतान स महार्णवे। अतिक्रामन्महावेगस्तरङ्गान् गणय निव ॥ ७३ ॥ तस्य वेगसमुद्धृतं जलं सजलदं तदा । अम्बरस्थं विवभ्राज शारदाभ्रमिवाततम् ॥ ७४ ॥ तिमिनक झषाः कूर्मा दृश्यन्ते विवृतास्तदा । वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ७५ ॥ प्लवमानं समीक्ष्याथ भुजङ्गाः
सागरालयाः। व्योग्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ ७६ ॥ शैलवर्मणां शैलतुल्यानाम् । “वर्म देहप्रमाणयोः" इति सजनः ॥ ७० ॥ रामानु०-सागरस्पेति । ऊर्मिजालानामित्यत्र “ न लोकाव्यय-" इति षष्ठया निषेधेपि ऋषिप्रयोगात् साधुत्वम् । उरसा उरश्शब्देन उरोवेगजनितो वायुर्लक्ष्यते ॥ ७० ॥ ७१ ॥ विकिरन्निव विभजन्निव । रोदसी द्यावापृथिव्यौ ॥ ७२ ॥ मेर्विति । अतिकामत् अत्यकामत् ॥ ७३ ॥ तस्येति । तस्य हनुमतः । वेगेन ऊरुवातेन । समुद्भूतं समुत्थापितम् । सजलदं जलं जलदो जलं चोभूतमित्यर्थः ॥ ७४ ॥ रामानु०-तस्येति । तस्य वेगसमुद्भूतमिति पाठः । जलं सजलदमित्यनेन समुदूत जल मेघमण्डलपर्यन्तमभूदित्यवगम्यते ॥७४ ॥ तिमीति । तिमयो महामत्स्याः , नकाः ग्राहाः वायुप्ररिता नौरिवासीदिति योजना ॥ ६८ ॥ सोन्माद इव समुद्रः अपस्मारीव लक्ष्यते, भ्रमणफेन जलोद्गमनघोषादिमत्वादियभुपमा ॥ ६९ ॥ शैलवर्मणा शैल
सहशेन । उरशब्देन उरोवेगतो जनितवायुर्लक्ष्यते ॥ ७० ॥७१ ॥ विकर्षन्निव रोदसी द्यावापृथिव्यौ ऊर्मिजालानि विकिरन विक्षिपत्रिव पुप्लुव इति सम्बन्ध d॥ ७२ ॥ ७३ ॥ वेगसमुढुष्टं वेगेनोत्कीर्णम् अत एवाम्बरस्थम् अत एव सजलदं जलदसहचरं जलं शारदाभ्रमिव स्वयं च जलदविशेषवत् विवभ्राजेत्यर्थः ।
वेगसमुद्भूतमित्यपि पाठः ॥ ७४॥ शरीराणि अवयवाः ।। ७५-७७ ॥
For Private And Personal