________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पिचन्निव बभौ, तदुपरि गमनावस्थायामाकाशं पिपासुरिव ददृशे ॥ ५८ ॥ ५९ ॥ पिङ्गे पिङ्गलवणे । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे चन्द्रसूर्याविवेत्यभूतोपमा ॥६० ॥ मुखमिति । तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलम् ॥६१॥ लाशूलमिति । समाविद्धम् उन्नतीकृतम् ॥ ६२ ॥ ६३ ॥ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले । चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ॥६॥मुखं नासिकया तस्य ताम्रया ताम्रमावभौ। सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ॥६॥लाशूलं च समाविद्धं प्लवमानस्य शोभते । अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः॥६२॥ लागूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः । व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥६३ ॥ स्फिग्देशेनाभिताम्रण रराज स महाकपिः । महता दारितेनेव गिरि गैरिकधातुना॥ ६४ ॥ तस्य वानरसिंहस्य प्लवमानस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥६५॥ खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता । दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥६६॥ पतत्पतङ्ग सङ्काशी व्यायतः शुशुभे कपिः । प्रवृद्ध इव मातङ्गः कक्ष्यया बद्धयमानया ॥ ६७ ॥ उपरिष्टाच्छरीरेण च्छायया
चावगाढया। सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥६८॥ स्फिग्देशेन वालमूलपदेशेन ॥ ६४॥ गर्जति अगर्जत् ॥६५॥ खे यथेति । सानुबन्धा, सपुच्छा उल्का हि पुच्छयुक्ता निपतति ॥६६॥ रामानु०-खे यथेति । उल्कापातोपमया रावणस्य भाव्यशुभ सूच्यते ॥ १६॥ पतदिति । पतङ्गः सूर्यः। व्यायतो दीर्घः। प्रवृद्ध इव दीर्घ इव,कक्ष्यायां बद्धयमानायां हि मातङ्गो दीपों भवति ॥ ६७ ॥रामानु०-पतदिति । पतत्पतङ्गसंकाशः गच्छत्सूर्यसदृशः व्यायतः कापः वध्यमानया कक्ष्यया प्रवृद्धः दीर्घभूतो मातङ्ग इब शुशुभ इति योजना । कक्ष्या इभमध्यबन्धनम् । “कक्ष्या प्रकोष्ठे हादेः काञ्च्यां मध्येभवन्धने ।" इत्यमरः॥ ६७ ॥ उपरिष्टादिति । नौ लावगाढेनाधोभागेन व्योमावगान चोर्ध्व दहशे ॥ ५८ ॥ ५९॥ परिमण्डले बर्तुलाकारे ॥ ६०-६३ ॥ स्फिग्देशेन वालमूलप्रदेशेन ॥ ६४ ॥ गर्जति जगर्ज ॥६५॥ सानुबन्धा सूक्ष्मोल्कासहिता ॥६६॥ पतत्पतङ्गसङ्काशः गच्छत्सूर्यसदृशः ।व्यायतः दीर्घाकारः। कपिः वध्यमानया कश्यया गजमध्यवन्धनरज्ज्वा । प्रवृद्धः दीर्धीभूतो मातङ्ग इव शुशुभ इति योजना ॥६७ ॥ उपरिष्टास्थितशरीरेणाषगाढया सागरान्तम्प्रविष्टया छायया प्रतिविम्बेन चैकाकारस्सन् सागरान्तर्मनमूला बहिष्ठोलभागा मारुताविष्टा
For Private And Personal