SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बा.रा.भू. इह रामदूतागमनमत्यन्तासम्भावितमिति मत्वा पुनर्बहुधा शङ्कते - अहो इत्यादिना ॥ २० ॥ स्वप्रेऽपीति । स्वप्नेऽपि यद्यहं वीरम् । राक्षसमिध्यवास कृतं दुःखं स्वप्रदृष्टोऽपि निवर्तयितुं क्षम इति वीर्यातिशयोक्तिः । राघवं सहलक्ष्मणम् । विश्लेषदशायामुभयोर्दर्शनात् स्वप्रदर्शनेऽप्यु भयोर्दर्शनं भवेत् । यद्वा तदानीमुभयोर्विश्लेषात्तौ किं परस्परं संयुक्तौ न वेति शङ्कते । पश्येयं नावसीदेयम् एवमुभयोस्स्वप्ने दर्शनेपि महत् दुःखं निवर्तेत कथंचिद ४९५।। अहो स्वप्नस्य सुखता याऽहमेव चिराहृता । प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥ २० ॥ स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् । पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥ २१ ॥ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् । न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥ २२ ॥ किन्न स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् । उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ॥ २३ ॥ अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः । संबुद्धये चाहमात्मानमिमं चापि वनौकसम् ॥ २४ ॥ जीवितं धारयेयम् । स्वप्नोपि मम मत्सरी । मद्दशां विज्ञाय राम इव स्वप्नोपि मयि मात्सर्यं करोति ॥ २१ ॥ २२ ॥ एवं यथार्थस्वपक्षौ निरस्य पुन श्चतुरो विभ्रमपक्षानुत्प्रेक्षते - किन्नु स्यादिति । चित्तमोहः रामशेमवार्ता श्रवणकुतूहल कन्दलित निरन्तर चिन्तासन्ततिपरिणतिविशेषरूपः कोपि मनसो विभ्रम इत्यर्थः । असत्यश्चित्तसङ्कल्पो वा । वातगतिः उपवासादिप्रयुक्तधातुक्षोभजो वातविकाररूपो भ्रमः । तदध्यारोपो वा यथा त्वरूपस्य वायोः पांसुपुत्र रूपविशेषोऽध्यारोपः । उन्मादजो विकारो वा । उन्मादो नाम विरहिणां कश्चिदवस्थाविशेषः, तजो विकारो भ्रमः । मृगतृष्णिका अन्यस्यान्यरूपेणाव भासः । चित्तमोहोन्मादावप्रकृतिस्थप्रतिभासविशेषौ । वातगतिमृगतृष्णि के तु प्रकृतिस्थस्य ||२३|| अनन्तरोक्तचतुष्टयं निराकरोति-अथवेत्यादिना । निराचष्टे अथवेति । मया यत्परिशङ्कितम् एतत्रैवं हि नैवमेव । कुतः ? मनस इति ॥१७- १२॥ इह रामदूतागमनमत्यन्तासम्भावितमिति मत्वा पुनर्षहुधा शङ्कतेअहो इत्यादिना ॥ २०-२२ ॥ एवं यथार्थस्वमपक्षौ निरस्य पुनश्चतुरो विभ्रमपक्षानुत्प्रेक्षते किं न्वित्यादि । चित्तमोहः निरन्तररामध्यानजनिततत्प्रेषितदूतद्दर्शन सम्भाषणादिविषयो भ्रमः । वातगतिः उपवासादिप्रयुक्तधातुक्षोभजातविकाररूपो भ्रम इत्यर्थः । उन्मादजो विकारः, उन्मादो नाम विरहिणां कश्चिदवस्थाविशेषः । मृगतृष्णिका सर्वशरीरिसाधारणो देशकालविशेषजन्यश्चाक्षुषो भ्रम इत्यर्थः ॥ २३ ॥ वाधाराहित्येन भ्रमचतुष्टयपक्षं निराचष्टे अथवेति । अयं वानरतद्भाषणादि For Private And Personal टी. सुं.. २० ३४ ॥९५॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy