________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailashsagarsuri Gyarmandie
दो मासौ द्विमासरूपः कालः । मे जीवितानुग्रहः जीवितानुग्राइकः, जीवितधारणानुकूलः कृतः । त्यक्ष्यामि, स्वयमेवेति भावः ॥ ३२ ॥ इति । श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः। ऊर्ध्व द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ ३२॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ तस्यास्तद्वचनं श्रुत्वा हनुमान हरियूथपः । दुःखाडुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥१॥ अहं रामस्य सन्देशादेवि दूतस्तवागतः । वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥२॥ यो ब्राह्ममत्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथीरामो देवि कौशलमब्रवीत् ॥ ३॥
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवाञ्छोकसन्तप्तः शिरसा तेऽभिवादनम् ॥ ४॥ तस्या इत्यादि । दुःखात दुःखाभिभूतायाः उत्तरोत्तरं दुःखं प्राप्तायाः ॥ १॥ अहमिति । तव दूतः त्वां प्रति प्रेषितो दूतः॥२॥ य इति । वेद वेत्ति। जीवितानुग्रहः जीविताभ्यनुज्ञा । त्यक्ष्यामि जीवितं रावणेत्यादिके सतीति भावः ॥ ३२ ॥ इति श्रीमहेश्वरतीयविरचिताय श्रीरामायणतत्त्वदीपिकाल्यायो सुन्दरकाण्डव्याख्यायो त्रयविंशः सर्गः ॥ ३३ ॥ तस्या इति । दुःखाडुःखाभिभूतायाः सन्ततदुःखाभिभूताया इत्यर्थः ॥ १॥ तवागतः, समीपमिति शेषः ॥२॥ ब्राह्ममा यो वेद, अनेन सर्वास्त्रपारगत्वमुक्तम् । तदनस्वामिनः ब्रह्मणस्सर्वजगत्समष्टित्ववत तदखस्यापि सर्वानसमष्ठित्वात । वेदात्यनेन सर्वकर्ममार्ग पारगत्वम. वेदविदा वर इत्यनेन ज्ञानमार्गपारगत्वमुक्तम् ॥ ३॥४॥
स०-दुःखादुःखाभिभूतायाः दुःखेनातन्तीति दुःखातस्तेषामिव यहुःख तेनाभिभूतायाः । यहा दुःखात् सान्त्वमुत्तरमन्नवीदित्यन्वयः । दुश्व सं च तयोस्समाहारः द्वनीकवद्भावो वा उत्तरपदलोपिसमा सान्तं वा । तस्मात् सीता एवं शिश्यतीति दुःखात्, स्वागमनप्रयोजनं जातमिति खात् सुखात । " दुदुःखमिति संप्रोक्त खं मुखं चोच्यते बुधैः " इति बननादुःसशब्द उभयवाची ॥१॥ यो बादामनं वेदांव वेदेत्यन्वयः । बहा वेदवेदेति दिरमिधानेन उभयोरपि मुख्यतामभिप्रेति । यद्वा वेदान् व्याख्येयानुगादीन् । वेदवेदान् भारतादीन् व्यासयानरूपान्विदन्ति ते तथा, तेषु वर इति । “इतिहासपुराणः पञ्चमो वेदानां वेदः " इत्युक्तेः ॥ ३ ॥
For Private And Personal