SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ४९३॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वाक्यं तन्न वितथं कार्य चेत्तदा रामो वनं गच्छतु ॥ २२ ॥ स इति । देव्यास्संबन्धि स्वकृतं वरदानं स्मृत्वा कैकेय्याः वचनं श्रुत्वा मुमोह ॥ २३ ॥ ॥ २४ ॥ अभिषेकात्परं प्रियं पितुर्वचनं विवासयाचनारूपम्, पूर्व मनसा आसाद्य अङ्गीकृत्य अथ वाचा प्रतिगृहीतवान् मनःपूर्वकमङ्गीकृतवा स राजा सत्यवाग्देव्या वरदानमनुस्मरन्। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥ २३ ॥ ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः । ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ॥ २४ ॥ स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् । मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ २५ ॥ दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् । अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ॥ २६ ॥ स विहायोत्तरीयाणि महार्हाणि महायशाः । विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ॥ २७ ॥ साऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी । न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ॥ २८ ॥ प्रागेव तु महाभागः सौमित्रिमित्रनन्दनः । पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः ॥ २९ ॥ त वयं भर्तुरादेशं बहुमान्य दृढव्रताः । प्रविष्टाः स्म पुराऽदृष्टं वन गम्भीरदर्शनम् ॥ ३० ॥ वसतो दण्डकारण्ये तस्याहममितौजसः । रक्षसाऽपहृता भार्या रावणेन दुरात्मना ॥ ३१ ॥ नित्यर्थः ॥ २५ ॥ २६ ॥ उत्तरीयाणि वासांसि । जनन्यै कौसल्यायै । मां समादिशत्, तन्निकटे त्वया स्थातव्यमित्युक्तवानित्यर्थः ॥२७॥ साऽहमिति । अग्रतः प्रस्थाने हेतुमाह-न हीति ॥ २८ ॥ प्रागेवेति । प्रागेव यद्यपि रामानन्तरमेव लक्ष्मणेन द्रुमचीरादिस्वीकारः तथापि तस्य त्वरातिशयव्यञ्जनाय तथोक्तिः । महाभागः " अहं सर्वे करिष्यामि " इति प्रतिज्ञानुसारेण सर्वविधकैङ्कर्यकरणोचिताभिषेकविघ्नहेतुभाग्यसम्पन्नः । सौमित्रिः 'सृष्टस्त्वं वनवासाय ' इत्युक्तवत्याः गर्भे सञ्जातः । मित्रनन्दनः स लक्ष्मणः सर्वविधकैर्यकर्तेत्यनुकुन्द्रैराभिनन्दनीयः । पूर्वजस्येत्यादि । रामकैर्यानुरूपत्वेन दुमचीरादीना | मलङ्करणत्वमित्यर्थः ॥ २९ ॥ ते वयमिति । पुराऽदृष्टं पूर्वमदृष्टम् । अत्र गम्भीरशब्देन दुष्प्रवेशत्वम्, दर्शनशब्देन स्वरूपमप्युच्यते ॥ ३० ॥३१॥ करिष्यामीति शपथपूर्वकमुक्तमित्यर्थः ॥ २२-२६ ॥ स इति । उत्तरीयाणि वासांसीत्यर्थः ॥ २७-२९ ।। ते वयमिति । पुरा अदृष्टमिति छेदः ॥ ३० ॥ ३१ ॥ For Private And Personal टी. सुं. स० ३३ ॥९३॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy