SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir का.रा.भू. १९॥ मच्छिता पुनः काठेन दे ति । स्वप्ने स्वास्थाने । स्वने वानरदर्शनं बन्धुविनाशकरमिति भाः ॥९॥ एवं दर्शनस्थ .. खप्रत्वं संभाव्य पुनर्याथार्थ्यमाह-वनोऽपीति । समाभावे हेतुमाह नहि मेऽस्ति निद्रति । निद्रानावे हेतुः शोकनेत्यादिः । एवं प्रतिबन्धकेन निद्रा स. ३२ भावभुक्त्वा सुखरूपहेत्वभावाच न निद्रेत्याह-सुखं हीति । इन्दुपूर्णप्रतिनाननेन पूर्णेन्दुप्रतिभाननेन ॥ १०॥ रामेति । सदैव वुद्धया विचिन्त्य स्वप्ने मयाऽयं विकृतोऽद्य दृष्टःशाखामृगःशास्त्रगणैनिषिद्धः। स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ ९॥ स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन व पीडितायाः। सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ १०॥ रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव । तस्यानुरूपां च कथा तमर्थमेवं प्रपश्यामि तथा शृणोमि ॥ ॥ अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा । विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ १२॥ मनोरथः स्यादिति चिन्तयामि तथापि बुद्धया च वितर्कयामि । किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ १३॥ तमेव राममेव वाचा अवती। तस्यानुरूपां विचिन्तितस्याभिवदनस्यानुरूपां कथां तथा शृणोमि । तमर्थ कथार्थमेवं प्रपश्यामि । एवम् उक्तप्रका रेण जानामीत्यन्वयः। तदर्थामिति पाठे अयमर्थः । तस्यानुरूपां रामकीर्तनस्यानरूपाम् । तदर्थी स रामोऽर्थोऽभिधेयो यस्याः ताम् ॥११॥ उक्तमथै विवृणोति-अहं होति ॥ १२॥ प्रथमम् इदं रामनामकथयितदर्शनं मनोरथः अभिलाषमात्रमिति चिन्तयामि । तथापि तथा चिन्तायां सत्यामपि । बुद्धया वितर्कयामि । मनोरथो न भवतीति विचारयामि । किं कारणमिति चेत् तस्य मनोरथस्य रूपं नास्ति । अयं वानरस्तु सुव्यक्तरूपश्च मां वदति च । तस्मान्मनोरथो न भवेदेवेत्यर्थः ॥१३॥ आज्ञाकरम् ॥ ७-९ ॥ इन्दुपूर्णप्रतिमाननेन पूर्णेन्दुप्रतिमाननेन ॥ १०॥ रामेति रामेति सदेव बुद्धया विचिन्य तमेव राममेव वाचा बुवती तस्यानुरूप चिन्तनस्य अभिवदनस्य च अनुरूप का तथा शृणोमि तमर्थ कथार्थम् एवं प्रपश्यामि एतदुक्तप्रकारेणैव जानामीति योजना ॥ ११ ॥ १२ ॥ उक्तमर्थ विवृणोतिमनोरथः स्यादिति । बुद्धचा चिन्तयामि तथा वितर्कयामि मनोरथो न भवतीति विचारयामि । किं कारणमिति चेत् तस्य मनोरथस्य रूपं रूप्यते प्राप्यतेऽनेनेति For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy