________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kailashsagarsuri Gyarmandir अनेनोक्तं सत्यमस्त्विति देवताः पार्थयते-नम इति । हुताशनाय च अनये च ॥ १४ ॥रामानु०-नमोऽस्त्विति । हुताशनाय चेति सम्पन् । अन्यथा वृत्तभङ्गः स्यात् ॥ १४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२॥
नमोऽस्तु वाचस्पतये सवजिणे स्वयम्भुवे चैव हुताशनाय च । अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथाऽस्तु नान्यथा ॥१४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥३२॥ सोऽवतीर्य दुमात्तस्माद्विद्वमप्रतिमाननः । विनीतवेषः कृपणः प्रणिपत्योपमृत्य च ॥ १ ॥ तामब्रवीन्महातेजा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय सीता मधुरया गिरा॥२॥ कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि । द्रमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ ३ ॥ किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् । पुण्डरीक पलाशाभ्यां विप्रकोणमिवोदकम् ॥ ४॥ सुराणामसुराणां वा नागगन्धर्वरक्षसाम् । यक्षाणां किन्नराणां वा का त्वं
भवसि शोभने ॥ ५॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने । वसूनां वा वरारोहे देवता प्रतिभासि मे ॥६॥ सोऽवतीयेत्यादि । सः राक्षसीषु सुप्तासु लब्धावसर इत्यर्थः । कृपणः सीतादौस्थ्यदर्शनेन दीनः । जाननपि वैदेव वाचयितुमब्रवीत् ॥ १-३॥ 1 किमर्थमिति । तव नेत्राभ्याम् आनन्दाश्रुयोगार्हाभ्याम् । किमर्थ कस्य कुलच्छेदाय । यद्वा किमर्थ किं चेतसि कृत्वा। पुण्डरीकेत्यादि । हन्तैतत्सौन्दर्य
प्रणयिना रामेण दृष्टमासीदिति भावः ॥ ४॥ सुराणामित्यादिषु निर्धारणे षष्ठी । का त्वं कस्य सम्बन्धिनीत्यर्थः ॥ ५-७ ॥ रामानु-विप्रकीर्णमियो र रूपं प्रापकं नास्ति हि । कुतः १ अयं वानर सुव्यक्तरूपश्च मा बदनि च, तस्मान्मनोरथो न भवत्येवेत्यर्थः ॥ १५ ॥ १५ ॥ इति श्रीमहेश्वरतीयविरचिताया श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायो द्वात्रिंशः सर्गः ॥ ३२॥ स इति । कृपणः दीनः, सीतादेन्यात् स्वयं कृपण इत्यर्थः । अब राक्षसीनो निद्रा , जाड्यात्, बिजटास्वमश्रवणजन्यभयानन्तरमात्मत्राणाय सीतैकशरणवेनोवेक्षणाच्च सीतादनुमतोरयमप्रत्यूहरूसँल्लाप इत्यनुमन्धेयम् । अस्थार्थस्य अष्टपञ्चाश सगेऽङ्गादाने हनुमनव ' ततस्तास्महितास्सर्वाः ' इत्यादिना वक्ष्यमागत्वामिति ॥ १ ॥२॥ अथ लिङ्गेरेव सीनेति निश्चित्यापि तयैव वाचयितुमजाननिव पृच्छति-कान्विति । इयं त्वं काऽसि ॥ ३ ॥४॥ दुराणी यक्षाणां किनराणां का त्वं भवांस, कस्य सम्बन्धिनी नवसीत्यर्थः ॥ ५-७ ॥
११
For Private And Personal