________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
RECI
बा.रा.भू. उद्विग्नकारिणः उद्वेगकारिणः ॥ २७ ॥ तैः परितः संरुद्धः अत एव रक्षसां बलं विधमन् प्रहरन् अहं महोदधेः परं पारं प्राप्तुं न शक्नुयामित्यन्वयः ॥ २८ ॥ अगृहीतार्था अविदितरामसन्देशार्था ॥ २९ ॥ ३० ॥ उद्देश इति । उद्देशे प्रदेशे । नष्टमार्गे अदृष्टमार्गे । उक्तविशेषणे उद्देशे वसति ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि । राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ २६ ॥ ते शूलशक्तिनित्रिंश विविधायुधपाणयः । आपतेयुर्विमर्देऽस्मिन् वेगेनोद्विकारिणः ॥ २७ ॥ संरुद्धस्तैस्तु परितो विधमन रक्षसां बलम् । शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ॥ २८ ॥ मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः । स्यादियं गृहीतार्था मम च ग्रहणं भवेत् ॥ २९ ॥ हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् । विपन्नं स्यात्ततः कार्य रामसुग्रीवयोरिदम् ॥ ३० ॥ उद्देशे नष्टमार्गेऽस्मिन राक्षसैः परिवारिते । सागरेण परिक्षिप्ते गुप्त वसति जानकी ॥ ३१ ॥ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे । नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ॥ ३२॥ विमृशंश्च न पश्यामि यो हते मयि वानरः । शतयोजनविस्तीर्ण लङ्घयेत महोदधिम् ॥ ३३ ॥ कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् । नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ॥ ३४ ॥ असत्यानि च युद्धानि संशयो मेन रोचते । कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ॥ ३५ ॥
इत्यन्वयः ॥ ३१ ॥ विशस्ते वेति । सहाय एव साहाय्यः तम् । कार्यसाधने सीतादर्शन निवेदनलक्षणकार्यसाधने ॥ ३२ ॥ विमृशन्निति । यो लङ्घयेत तं न पश्यामीत्यन्वयः ॥ ३३ ॥ ३४ ॥ असत्यानि अनिश्चितजयापजयानि । केशस्तु भूयानिति भावः । ततो नैतन्मम मतमित्याह संशय उद्विकारिणः उद्वेगकारिणः ॥२७॥२८॥ मामिति । मां वा गृह्णीयुः मम ग्रहणं भवेद्यदि इयं च सीता अगृहीतार्था स्यात् अविदितरामवृत्तान्ता स्यादिति सम्बन्धः ॥ २९ ॥ ३ ॥ उद्देशे प्रदेशे । नष्टमार्गे अदृष्टमार्गे ॥ ३१ ॥ कार्यसाधने सीतादर्शन निवेदन रूपकार्यकरणे ॥ ३२ ॥ ३३ ॥ पारं प्राप्तुं न शक्ष्यामि, युद्धश्रान्तत्वादिति भावः ॥ ३४ ॥ असत्यानीति । अनिश्चितजयापजयानीत्यर्थः । संशयः संशयितोऽर्थः । संशयरूपकार्यकारी मूढ इत्याशयेनाह के इति । कः प्राज्ञः ससंशयं
For Private And Personal
टी. सुं.की.
स० [३०]
॥८८॥